SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ अनुसंधान - १६ • 13 प्रदेशाः सद्वस्तप्रथितमहिमा यत्र रुचिरे ॥ ५९ ॥ तथा याभिः स्वाभिर्गतिभिरनिशं सिन्धुरवरा जिता एताश्चैतान् परिदधति नारीभसिचये । किमन्यच्चातुर्य परिवदति तासां बुधजनो यकाभिः स्वर्योषाः स्वकगुणवितानैः प्रविजिताः ॥ ६० ॥ सुकृतिसदने यस्मिन्नित्यं विभान्ति मृगीदृशोऽधिकमिभमृगीदृग्भ्यो यत् तन्त्र कौतुकमस्ति नः । निजकवदने दन्तश्रेणीं वपुः कनकप्रभं सुकरयुगलं शुभ्रं वक्त्रं त्विमाः किल बिभ्रति ॥ ६१ ॥ वितरणगुणत्प्रो (प्रो) द्यत्पाणि वचः श्रवच्छूर्ति (?) (श्रवणश्रुति) जिनवरगुरुश्राद्धादीनां गुणावलिकीर्तनात् । वदनममलं स्वं कुर्वन्ति क्षणादतिपावनं नलिननयनाः श्रद्धालूनां वसन्ति हि यत्र ताः ॥६२॥ सामायिकादिसमधर्मक्रियासु दक्षा श्रीमज्जिनेन्द्रपदपूजनभव्यभक्तिः । विद्योतते बहुततिः सदुपासिकानामम्बेव या शमवतां शिवसौख्यादानाम् ॥६३॥ इति सप्तभि: काव्यैः श्राद्धीवर्णनम् ॥ अथ श्रीजिनमन्दिरवर्णनम् । यथा Jain Education International -- अर्हद्धाम्नां पटलमसमं वीक्ष्य विध्वस्तपीडं प्रेम्णां वृन्दं सुकृतिभविनः प्राप्नुवन्ति प्रकामम् । चक्रवाता इव परिवृढं मंक्षु पाथोजिनीनां यद्वा ज्योत्स्ना प्रियसमुदया यामिनीप्राणनाथम् ॥६४॥ व्यक्तं वीथी विलसतितरां श्रीजगन्नाथधाम्नाहो भीतं व्रजति सकलं दूरतो यां समीक्ष्य | चिन्तारत्नावलिमिव महादुर्विधत्वं नराणां या पञ्चाननततिमलं सिन्धुराणां स्मयित्वम् ॥६५॥ For Private & Personal Use Only www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy