________________
॥९५॥
अनुसंधान-१५ • 18 त्तारालियुग्दृग्दलकेतकीयाम् ॥९४|| दोलाविलासोचितकर्णफाली व्यालीढताडङ्कनिभेन बद्ध्वा । या मुख्यरूपे वहते स्वतेजः कीर्तिद्विषयोमणि-पूर्णिमेन्द्वोः यद्दोर्मयद्योतरवः सपर्यापर्याकुला विज्ञकुलार्पितेष्टाः । । शोणाङ्गुलीपल्लवलब्धशोभा:(भा-) संभारमाबिभ्रति भूषणानाम् ॥९६॥ कोटीरहाराङ्गदकङ्कणाद्यप्रमाणमाणिक्यवतीं विलोक्य । जानामि यां रत्नकरेण रत्नाकरेण वाऽऽरोहितसर्वकोशाम् ॥९७॥ प्रालेयमूर्तेस्तरलार्कबालोन्मीलन्मरीचिप्रचयेन यस्याः । उत्तीर्णवासोग्रतरङ्गधारं जागल्यतेऽङ्गं तनुते न जाने ॥९८॥ आदावभूतां जनकानुरूपे श्रीर्या च दुग्धाब्धिविधिप्रसूते । आचिच्छिदाते नु मिथोऽनुपातश्वेतौ गुणौ क्वाऽपि कलिप्रवृत्तौ ॥१९॥ या वक्त्रपङ्केरुहपातुकानां मालामिव स्तम्भितषट्पदानाम् । वीणां कलक्वाणवितीर्णकर्णप्रीति करे मारकतीं बिभर्ति ॥१००॥ य(या ?) दानगत्याद्यखिलप्रकारैः किं नो करेणोः करणिं करोति ? |
Jain Education International
www.jainelibrary.org
For Private & Personal Use Only