________________
37
श्रीभट्टारकाऽनुत्तरकभट्टारकवरविजयदेवसूरिसदन्तिके योनूचानरत्नं विजयसिंहो गुरुगुणरसजरोहणाचलसंस्तवः । . पट्टालङ्कृतिस्तीर्थपतिवीरक्रमणकजसविधे यथा किल भासते पात्रं गौतमोऽयं गणधरो मानुषकलुषपवनाशने भुजगेरितम् ।।४६॥ इति गुणगणराजितानां मतानां हितानां हि तेषां प्रसादान्वितानां सतां निजकरणपरिच्छदक्षेत्रवार्त्तप्रवृत्तिप्रतीतोऽत्र लेखो विशेषेहितः । मम हरिषकरालिकाम्भोदसच्चण्डवृष्टिप्रपातो यतोऽतो भविष्यत्यरं मतिमितगुरुभिगरीयस्तरैस्तातपादैः प्रसद्य प्रसाद्योऽनवद्योहितः ॥४७॥" शिशुनमतिरवधार्यस्त्रिसायं तथा तातपादाब्जनिर्ग्रन्थभृङ्गावलीनामनुनमति-नमती मे प्रसाद्याविहत्यानगारार्हतानां प्रणामोऽवधार्य । वितथविततकवित्वाक्षरार्थभ्रमौचित्यबन्धप्रबद्धं मया मौर्यतो यत् प्रचितर्क सहनपूज्यैश्च सोढव्य मूर्जाख्यमासे सितोऽलेखि लेखोऽथ भद्रम् ॥४८॥"
सं. १७०१ वर्षे ॥
उत्तम। २. मणि । ३. वर्णना। ४. वपुः । ५. सहितः । ६. वृक्षः । ७. प्राप्तः । ८. बृहस्पतिः । ९. हितकृत् । १०. चण्डवृष्टिप्रपातवृत्तम् । ११. याऽऽप्त । १२. क्षमा । १३. कार्तिक । १४. चण्डवृष्टिप्रपातवृत्तम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org