________________
तद्भेदतारतम्यं तु कोटित्वेऽपि न निष्ठितम् ॥ २००॥
यथेदम् -
32
-
जघन्यात् परमं यावत् क्षेत्र - कालैर्विशेषिताः । असंख्येया भवन्त्येते ;
Jain Education International
सर्वजघन्यावगाहकाद् वर्णादेकैकप्रदेशवृद्ध्या सर्वोत्कृष्टावगाहकं वर्णं यावत् क्षेत्रापेक्षयाऽसंख्येया वर्णा भवन्ति । १ । सर्वजघन्यस्थितिकादेकैकसमयवृद्ध्या सर्वोत्कृष्टस्थितिकं यावत् कालापेक्षयाऽसंख्येया वर्णा भवन्ति । २ । २०१ || पर्ययांशैस्त्वनन्तकाः ।
सर्वजघन्यप्रदेशिकादेकैकपर्ययवृद्धया सर्वोत्कृष्टपर्ययं यावत् पर्ययापेक्षयाऽनन्ता वर्णा भवन्ति |२| ॥ २०२ ॥
दिवसाद् बत मासस्य यथा नैकान्तमेकता ॥ अनुदात्तादुदात्तस्य तथा नैकान्तमेकता ॥ तीव्र - मन्दादिभावैश्चेत् कर्मोदर्कविचित्रता । क्षमाक्रोधादिकाकर्षैः किमेषामर्थतुल्यता ? ॥ अर्थान्तरत्वे युक्तिश्चेत् सा वर्णान्तरता न किम् ? | देवो देहान्तरावाप्तौ सोऽयमित्येव मा ग्रहीः ॥२०३॥ अवर्णौ युगपत् प्राप्ता - विवर्णेनाऽनुरुध्यतः ।
त्वमेव ऋमित्वे तु ऐकारत्वाय सज्जतः ॥ २०४॥ नैकारादिचतुष्कस्य ह्रस्वात् केचन मन्वते ॥२०५॥
वर्णे दीर्घमप्येके वारयन्ति निरंकुशी: (शाः) ॥ २०६ ॥ आकृत्या सिद्धिरिति चे- दैत औतश्च फल्गुता । त्र्यंशतायाः प्लुतत्वं स्यान्न प्लुतो लिपिगोचरः || स्थानसंख्या प्रमाणं चे-दाकाराद्यवमाननम् । अनुनाशिक- वानां च कादिभ्योऽधिकता भवेत् ॥ आदिं विना न मध्यत्वं नेदुत् प्रतिपदं पुनः । वंशानुपातिनी मात्रा ह्रस्वाः पञ्च तु रूढितः ॥ एकादिवर्षप्रमिताः क्रमेण कस्यापि बाला लघु-मध्य-वृद्धाः ।
For Private & Personal Use Only
www.jainelibrary.org