________________
जिह्वामूल उपध्मेति चत्वारोऽपि पराश्रिताः ||३२|| शिरोबिन्दु - पुरोबिन्दू वज्रवद् गजकुम्भवत् । वर्णाकारविदः प्राहु-रमीषामाकृतिक्रमम् ॥ अनुस्वारादिकादीनां योऽधिकः कोऽपि कल्प्यते । उच्चारश्च सुखोच्चार-स्तदधीनस्ततः स इत् [३३ ?] ज्यायस्त्वाद-क-पा एव प्रयुक्तास्तत्र तात्त्विकैः । लोकानुग्रहलोपः स्याद् बहुत्वे भेददर्शनात् ।। व्यवहाराः प्रवर्तन्ते शलभीयगतिर्यथा । पंचमत्वादिनोदादि-रिति वर्गादिदेशकः ||३४|| अनुस्वारो विसर्गश्च पृष्ठतः स्वरमिच्छतः । जिह्वामूलमुपध्मा च स्वरं व्यञ्जनमन्तरा ॥ क- खावेव श्रये जिह्वा - मूलीयः पुरतो गमौ । उपध्मानीयनामा तु प-फा वेवेयमौचिती ॥३५॥ अनुस्वारस्य तद्वन्तमुपध्मानीयमूष्मसु । रेफे च सति मन्यन्ते च्छान्दसाः स्वैरिबुद्धयः ॥ यतस्ते
8
―
अलाबुवीणनिर्घोषो दन्तमूल्यस्वरानुगः । अनुस्वारस्तु कर्तव्यो नित्यं होः शषसेषु च ॥
गणपति ७ हवामहे । ब्राह्मणानां ७ राजा । अ ७ शुनाति । सुची ७ षत् । त्व ७ सोमः
॥३६॥
ननु
त्रिषष्टिश्चतुःषष्टिर्वा वर्णाः संभवतो मताः |
प्राकृते संस्कृते वापि स्वयं प्रोक्ताः स्वयम्भुवा ॥ स्वरा विंशतिरेकश्च,
अ आ आ इ ई ई उ ऊ ऊ ऋ ॠ ऋ लृ लृ लृ ए ऐ ऐ ओ औ औ ॥
स्पर्शानां पञ्चविंशतिः ।
Jain Education International
यादयश्च स्मृता ह्यष्टौ चत्वारस्तु यमाः स्मृताः ||
For Private & Personal Use Only
www.jainelibrary.org