SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ ३. (वामेय - वामातनय-पार्श्वप्रभो! । ४. मे मम, कामितका [कामितकम्] इष्टसुखम् )। ५. तनु-विस्तारय । ६. श्रीगरिष्ठ । ७. सदा नित्यम् । ८. लोकेभ्यः नवः स्तव्यो यस्य (लोक-नव, व-बयोः चित्रकाव्ये ऐक्यात् प्रथमपादे 'न बाल' इति अत्र च 'न वाऽऽल' इति ग्राह्यम् । 'नु स्तुतौ' इत्यस्मात् धातोः' नवः स्तव्यः- स्तवनम्) अलीनाम् इयं आला, आला चासौ भा च कान्तिः ता (ताम्) लाति गृह्णाति चमर (भ्रमर) कान्ति सदृश इत्यर्थः (आल-भा-ल) ॥५॥ कल्याणमालाकरणाधिहारी कल्याणमालाऽकरणाऽऽधिहारी । कल्याणमालाऽकरणाधिहाऽरीकल्याणमाऽऽलाकरणाऽधि हारी ॥६॥ १. कल्याणश्रेणिकरणेन अधिहारी-रम्यः। २. स्वर्णस्य मा-लक्ष्मी: तस्या ला ग्रहणम् न करोति नीरागत्वात् । (कल्याण-मा-ला-अकरण) । ३. आधि: चित्तपीडा तां हरति इत्येवंशीलः । आधि-हारी। ४. कल्यः प्रधान: आण: तं मलति धारयति कल्याणमालाः (कल्य-आण-माल)। ५. लं (अकम्) अदुःखं (दुःखम्) रणः सङ्ग्रामः तौ अधिजहाति । (अक-रण-अधिहअकरणाधिह)। ६. अरिश्चासौ इ: काम: तस्य कल्यर्थं सङ्ग्रामार्थं आण: शब्दः सिंहनादः तम् मनोति (मिनोति) विनाशयति सः (अरि-इ-कलिआण-म – अरीकल्याणम)। ७. आलम् अलीकदानम् आ सामस्त्येन न किरति क्षिपति स (आल-आ-करण -- आलाकरण)। ८. बुद्धिरहितं यथा भवति सः (अधि)। ९. हारधारी (हारी-हार: यस्य अस्ति हारी) वीतरागत्वात् । (वीतरागो हारं धारयति तथापि तत् तस्य धारणम् , अधि-अनासक्तवृत्त्या अत एव अधि-बुद्धिरहितम्) ॥६॥ इत्थं स्तुतं यमकैरवेन्दुं चारूपभूमिरमणीरमणीयहारम् । श्रीपार्श्वनाथजिनयं जिनपद्मयाऽऽढ्यं ध्यायामि भावसहितं सहितं समन्तात् ॥७॥ १. यमानि एव कैरवाणि (यमाः महाव्रतानि) (प्रेषक : आ. विजयप्रद्युम्नसूरि) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520511
Book TitleAnusandhan 1998 00 SrNo 11
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1998
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy