________________
39
दत्तं द्वात्रिंशत्कन्या राजभिरपरैर्दता । इत्थं कृतवान् राज्यं चिरम् । जिनायतनमण्डनमण्डितां समुद्रकान्तां कृत्वा काले सद्गुरुश्रीधर्मशेखरपदपङ्कजमूले श्रितसंयमः पञ्चत्वं प्रपन्नः पञ्चमगति शिश्राय केवलात्मैव बभूव ।
एकादशदशसङ्घयः स्तम्भनचरितान्तरे प्रबन्धोऽयम् । नृपतेर्मेघरथस्य प्राभृतवस्तूपमे च सङ्घस्य ।।
(प्रबन्धः २२) वचनानि मदुक्तानि प्राज्ञाज्ञप्रियविप्रियाणि सहजेन । दिनकरकिरणानि यथा सुकमलकुमुदव्रजस्य संसारे ॥ १ ॥ विश्वान्यमूनि विश्वानि येन सृष्टानि शक्तितः । अनादिनिधनो देवः स्वयं सिद्धो मुदेस्तु वः ।। २ ।।
सुराष्ट्रामण्डले उषामण्डलाधिपतिः सुमित्राप्राणनाथो राजा सुमित्रो नामाऽभूत् । तत्पुत्रश्च मुञ्जलक्षणो मुञ्जघोषाभिधानो निजराजकेलिकलाविकल: सकलकुलकलङ्कशीलः सर्वकुलक्षणकोशागारतया निर्वासितो राज्ञा महत्यरण्ये पपात । पिपासापिशाची सक्रान्ता वपुषि । अत्रान्तरे, हंसमिथुनेन स्वपत्रच्छाया चक्रे तस्योपरि छत्रवत् । पक्षव्रजेन चामरलीलाप्यनुचक्रे । शीतलोपचारार्थं च जलभिन्नपतत्रविगलद्वारिबन्दुजलपाने नापि च क्षणार्धेन मधुरेण निजेन कलरावालप्तिसुखोदयकर्ण श्रुतिपातेम स्वस्थीकृतः नीतस्तेन राजहंसयुगलेन स्वाश्रयवृक्षकुल्लायं स राजकुरणः । शर्करानामवटमूले मुक्तः ताभ्यां दाभ्यां निजात् पृष्ठादुत्तीर्य माणिभद्रसरस्तीरे । ततः कमलकन्दैः शर्करावटफलैरपि अन्यैरपि च नीवारतुंदलैर्विविधरसपेशलैर्बुह(बहु)लैः फलै सुखीकृतः । क्रमेण च ताभ्यां तत्पृष्टियुगलाधिरूढः पृथ्वी पर्यटति । सर्वत्र पश्यति नानाश्चर्याणि । एकदा च स ऊर्मिलनामा राजहंसः स्वप्रियाधमिल्लानाम्नो राजहंस्या दोहदपूरणाय प्रतस्थे स्वर्णकमलसम्बलसबलः । ततो मार्गे गच्छता पृष्टं मुञ्जघोषेण "भो ! मित्राद्य व गम्यते गगनाध्वना ?" हंसेनापि चोक्तं-देवस्योपयाचितं देयं अस्ति, यत्प्रभावादावां मानवी भाषां ब्रुवन्तौ वर्तावहे; तस्य पूजयाऽद्य दोहदः सम्पूर्णो भविष्यति । इति कथनवसाने ते प्राप्ता नीलगिरि कुमारसागरतटाकान्तिके तालीवने । तत्र प्रभावाकरं .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org