________________
इति अमन्दजगदानन्ददायिनि आचार्यश्रीफङ्ग विरचिते श्रीदेवाधिदेव-पटले धर्मशास्त्रे श्रीस्ताभनेश्वरचरित्रे पवित्र द्वात्रिंशत्प्रबन्धबन्धुर प्रथमः श्रीभरतेश्वर प्रबन्धः समाप्तः ॥
मा कुप्यन्तु कृपावन्तः, प्रति मां कविकुञ्जराः । कविकीटकतुल्योऽहं, हन्तव्यो नास्यमामता ।। १ ।।
(प्रबन्धः २) यदेकमपि संसारे, नानाकारकरम्बितम् । दर्शनैरपि दुर्लक्ष्यं, तद् ज्योतिः प्रणिदध्महे ॥ १ ॥ का पि देवा न के सन्ति भक्ता अपि तथाप्यहो । सेवकस्वामिता कापि, श्रीमेरु स्तम्भनेन्द्रयोः ॥ २ ॥
अस्मिन्नेव जम्बूद्वीपे भरते च वर्षे अयोध्यायां श्रीयुगादिदेवनिर्वाणकल्याणकदिनात् सुषमदुःखमारके तृतीये वर्षत्रयसप्तदशपक्षहीन व्यतिक्रान्ते पञ्चाशत्कोटिलक्षसागरोपमेषु गतेषु सगराजितजन्म । सगरस्य चक्रवर्तित्वं व्याख्येयम् । एकदा च तस्मिन् श्रीसगरचक्रवर्तिनि सभासीने सति अकस्मात् कुतोऽप्यागत्य के नाप्यवधूतवेषधारिणा नरेण निवारकै निवार्य माणे नापि स्वाम्यादेशेन प्रतीहारसहमध्यप्रविष्टनैकं मतबालकं उपदावद् राज्ञोऽग्रे विमुच्य सभान्तरित्यू-- दानम्(रित्युदितं) -- हे राजन् ! मुष्टोऽस्मि दैवेन, मृतोऽकाले मे पुत्रोऽयं, कुरु में प्रसादं यथा जीवत्यसौ । तत् श्रुत्वा राजोवाच- भो पुरुष ! मयि विजयिनि अकालमरणं कुतः सम्भाव्यते अश्रुतपूर्वम् ? । स्वामिन्नहं न जाने दैवविलसितम् । इत्युदिते तस्मिन् दुःखिते पुरुषे राजवैद्यवृन्दाय सजीवकरणाय तं मृतमभकं ददौ । तेऽपि पालोच्य विदग्धा वैद्याः समयोचितमुत्तरं विज्ञप्तवन्तः - हे राजन् ! यत्र गृहे कोऽपि कदापि न मृतोऽस्ति भरतेऽत्र प्रतिगृहं शोधयित्वा तद्गृहरक्षां समानीय सजीव एष विधीयते । तथा कृते न लब्धा । ततः सगरः प्रोवाच - भो पूत्कारकारक ! किं रोदनशीलो भवान् नैवं वेत्ति सर्वेषामपि जीवानां मरणान्तमेव जीवितम् ? । ततः किमर्थं क्लिश्यते स्वात्मा विवेकविकलैः पुम्भि : ? । राजोक्तं स पूत्कारवान् विचार्य साक्षेपं वचः प्रोवाच- भी नरेन्द्र ! मयेति न ज्ञातं महाव्यास इव भवान् संसारस्वरूपं व्याख्यातुं वैराग्यं तरङ्गयितुं पण्डितत्वं करिष्यति । प्रजानाथ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org