SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ श्री जिनस्तुतिः ॥ सं. मुनि जगच्चन्द्रविजयगणि ॥ श्री जिनेभ्यो नमः ॥ कु ख गों' घ ङ च छोहे जा। झो बट' ठो' ड ढाण ते ।(तैः) थ्यु द धि' नि प फो' बा भू' । माँ या र लो'' व' शं ष स ॥१॥ इति जिनस्तुति ।। अस्य श्लोकस्य व्याख्या हे अज त्वं मामवरक्ष इत्यर्थः । अज इति किं ? जायते इति जः न जः अजः । न विद्यते ज-जन्म यस्य स वीतरागस्तस्य संबोधनं हे अजः । त्वं कथंभूतः कु पृथ्वी तस्यां खगः सूर्यः इति कुखगः । पुनः कथंभूतस्त्वं अघं पापं तस्य ङविषय तस्य च समूहःतस्य छ छेदकः इत्यर्थः इति अघङचछः । पुनः कथंभूतस्त्वं ? न विद्यते झो बंधनमस्य असौ अझः । बंधनं किं ? कर्मणाम्। पुनः अ इति निषिद्धे अ विषय एव ट वातो यस्यासौ अञट तस्य संबोधने हे अबटः । पुन कथंभूतस्त्वं अणमज्ञानता क्रोधो तैः ठ शून्यो रहित इत्यर्थः । पुन कथंभूतस्त्वं - ड चन्द्रमंडलः तद्वत् ढो विख्यातः । पुन कथंभूतस्त्वं - थयो: लक्षणानि समुद्रिकादयः तेषामुदधिः इति थ्युदधिः। पुन कथंभूतस्त्वं - नि भद्रं तदेव पं प्रौढं फं फलं यस्यासौ निपफः । पुन कथंभूतः-ब क्लेशः तस्य न विद्यते भू उत्पत्ति र्यस्यासौ बाभूः । पुन कथंभूतः-या पृथ्वी तस्या रान् भयान् लः लुनाति इति यारलः । हे अबट:(ट!)-पुनस्त्वं कथंभूतः शं सुखं तदेव षा श्रेष्ठा सा लक्ष्मीर्यस्यासौ शंषसः इदृशस्त्वं इति शब्दार्थः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520508
Book TitleAnusandhan 1997 00 SrNo 08
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1997
Total Pages142
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy