________________
[५२९]
શ્રી જન સત્ય પ્રકાશ
[१५४
॥ ईलादुर्गस्तवनम् ॥ कर्ता-मुनिराज श्री भद्रकरविजयजी महाराज
(क्रमांक ४४ थी पूर्ण)
[इलादुर्गचैत्यैतिह्यपरिचयः ] केशरीयेन्द्रकाष्ठायां प्रतीच्यां तारणाचलः । टीटोइ दक्षिणायां च मुहरीपार्श्वनाथकः ॥ १० ॥ कुम्भारीयोत्तरायां वै तीर्था इयद्धरस्यते । चतुर्दिक्षु प्रशोभन्ते चैलोऽधिशोभतेऽन्तरे ॥ ११ ॥ [युग्मम् ] अशोकसिंहासनपुष्कराको यो मौर्यवंशाचलकूटभूतः । एकातपत्रीकृतभूमिराज्यः प्रासीक्षितौ संप्रतिराट् सुजैनः ॥ १२ ॥ सपादकोटिबिम्बं वै चैत्यं सपादलक्षकम् । आर्यसुहस्तिभक्तेन, येनाकारि सुभावतः ॥ १३ ॥ तेनोर्वीपतिचक्रचुम्बितपदा कारुण्यपाथोधिना । धात्रीमण्डितरम्यचैत्यततिना श्रेयोनिधिस्वामिना । प्रोपदभ्रे जिनसनसम्प्रतिनृपेणैलं पुरा यजरत् । तञ्चैत्याधिपतिस्तनोतु सुयशो वः शान्तिनाथप्रभुः ॥ १४ ॥
[त्रिभिर्विशेषकम् ] कालव्यत्ययतः प्रजीर्णमभवञ्चैत्यं पुनर्यन्महत् । श्रेष्ठी दीनधम प्रदाननिपुणः श्रीवत्सराजाभिधः । ऊकेशाभिधवंशमौक्तिकसमो धर्मक्रियाकर्मठः । तत्काम्यं पुनरुद्धार सुमना ऐलं महीक्षिन्निभः ॥ १५ ॥ चातुर्विद्यविशारदो मुनिमणिर्मेधाविनामग्रणीानाशास्त्रविधानधातृसदृशः प्रौढप्रभावाङ्कितः । सर्वज्ञो भयदेऽपिदुःखदकलौ दिव्यप्रभाभास्वरः, प्रोच्चस्वच्छचरित्रपालनतया सर्वैः सदा सेवितः ॥ १६ ॥ नृत्य द्विष्ट परङ्गकीर्तिगणिको जैनागमज्ञाग्रगो भुव्यासीद्गुणमाल्यराजिततनुर्या हेमचन्द्रः प्रभुः । तत्पादाम्बुजचञ्चरीकसदृशः श्राद्धः पुनः प्राकरोत् धर्मी श्रीलकुमारपालनृपराडैलस्य चैत्योऽधतिम् ॥ १७ ॥ आचार्यश्वरसोमसुन्दरविभोः सद्देशनापानकृत् सभ्यश्रेष्ठसभाकिरीटसुमणिर्गोविन्दनामा धनी। ऊकेशाभिधवंशवासरमणिः खानिर्गुणानां पुनः चैत्योध्धारमचीकरत्प्रसुमना ऐलस्य शैलस्य वै ॥ १८ ॥
[समाप्त]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org