________________ Error! No text of specified style in document. मन्तर्गतस्य मरुतः स किलानुभावः. .... यस्मिन् हर-प्रभृतयोऽपि हतप्रभावाः, सोऽपि त्वया रतिपतिः क्षपितः क्षणेन; विध्यापिता हुत-भुजः पयसाथ येन, पीतं न किं तदपि दुर्द्धर-वाडवेन?....... स्वामिन्ननल्प-गरिमाणमपि प्रपन्ना स्त्वां जन्तवः कथमहो हृदये दधानाः?; जन्मोदधिं लघु तरन्त्यति-लाघवेन, चिन्त्यो न हन्त महतां यदि वा प्रभावः. क्रोधस्त्वया यदि विभो! प्रथमं निरस्तो, ध्वस्तास्तदा बत कथं किल कर्म-चौराः?; प्लोषत्यमत्र यदि वा शिशिराऽपि लोके नीलमाणि विपिनानि न किं हिमानी?. त्वां योगिनो जिन! सदा परमात्म-रूप मन्वेषयन्ति हृदयाम्बज-कोश-देश; पतस्य निर्मल-रुचेर्यदि वा किमन्यदक्षस्य संभवि पदं ननु कर्णिकायाः?.. ध्यानाज्जिनेश! भवतो भविनः क्षणेन, देहं विहाय परमात्म-दशां व्रजन्ति; तीव्रानलादुपल-भावमपास्य लोके, चामीकरत्वमचिरादिव धातु-भेदाः. ...... अंतः सदैव जिन! यस्य विभाव्यसे त्वं, भव्यैः कथं तदपि नाशयसे शरीरम?; एतत्स्वरूपमथ मध्य-विवर्तिनो हि, यद्विग्रहं प्रशमयन्ति महानुभावाः; आत्मा मनीषिभिरयं त्वदभेद-बुद्ध्या; Page 6 of 23