________________ विमलस्त्रास-विरहित-स्त्रिभुवन-चूडामणिर्भगवान्. .28. वीरः सर्व-सुरासुरेन्द्र-महितो वीरं बुधाः संश्रिताः वीरेणाभिहतः स्वकर्म-निचयो वीराय नित्यं नमः. वीरातीर्थमिदं प्रवृत्तमतुलं वीरस्य घोरं तपो वीरे श्री-धृति-कीर्ति-कान्ति-निचयः श्री वीर! भद्रं दिश. .29. अवनितल-गतानां कृत्रिमा-कृत्रिमाणां वरभवन-गतानां दिव्य-वैमानिकानाम्. इह मनुज-कृतानां, देव-राजार्चितानां; जिनवर-भवनानां भावतोहं नमामि. .30. सर्वेषां वेधसामाद्य-मादिमं परमेष्ठिनाम्. देवाधिदेवं सर्वजं श्रीवीरं प्रणिदध्महे. .31. देवोनेक-भवार्जि-तोर्जित-महा-पाप-प्रदीपानलो देवः सिद्धि-वधू-विशाल-हृदया-लङकार-हारोपमः. देवोष्टादश-दोष-सिन्धुर-घटा-निर्भेद-पञ्चाननो भव्यानां विदधातु वांछित-फलं श्रीवीतरागो जिनः. .32. ख्यातोष्टापद-पर्वतो गजपदः सम्मेत-शैलाभिधः श्रीमान् रैवतकः प्रसिद्ध-महिमा शत्रुञ्जयो मण्डपः. वैभारः कनका-चलोर्बुद-गिरिः श्रीचित्रकूटादयस्तत्र श्रीऋषभादयो जिनवराः कुर्वन्तु वो मङ्गलम्. .33. Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org