________________ विश्वोपकारकी-भूत-तीर्थकृत्कर्म-निर्मितिः. सुरासुर-नरैः पूज्यो, वासुपूज्यः पुनातु वः. .14. विमल-स्वामिनो वाचः कतक-क्षोद-सोदराः. जयन्ति त्रिजगच्चेतो-जल-नैर्मल्य-हेतवः. .15. स्वयम्भू-रमण-स्पर्द्धि-करुणारस-वारिणा. अनन्त-जिदनन्तां वः प्रयच्छतु सुख-श्रियम्. .16. कल्पद्रुम-सधर्माण-मिष्टप्राप्तौ शरीरिणाम्. चतुर्धा धर्म-देष्टारं, धर्मनाथ-मुपास्महे. .17. सुधासोदर-वाग्ज्योत्स्ना-निर्मलीकृत-दिङ्मुखः. मृगलक्ष्मा तमःशान्त्यै शान्तिनाथ-जिनोस्तु वः. .18. श्रीकुन्थुनाथो भगवान् सनाथो-तिशयर्द्धिभिः. सुरासुर-नृनाथाना-मेकनाथोस्तु वः श्रिये. .19. अरनाथस्तु भगवाँ-श्चतुर्थार-नभोरविः. चतुर्थ-पुरुषार्थ-श्रीविलासं वितनोतु वः. .20. सुरासुर-नराधीश-मयूर-नव-वारिदम्. कर्मद्र्न्मूलने हस्ति-मल्लं मल्लि-मभिष्टुमः. .21. जगन्महा-मोहनिद्रा-प्रत्यूष-समयोपमम्. मुनिसुव्रत-नाथस्य देशना-वचनं स्तुमः. .22. लुठन्तो नमतां मूर्ध्नि, निर्मलीकार-कारणम्. वारिप्लवा इव नमेः पान्तु पाद-नखांशवः. .23. यदुवंश-समुद्रेन्दुः कर्मकक्ष-हुताशनः. अरिष्ट-नेमि-भगवान् भूयाद्वो-रिष्ट-नाशनः. .24. कमठे धरणेन्द्रे च स्वोचितं कर्म कुर्वति. प्रभुस्तुल्य-मनोवृत्तिः पार्श्वनाथः श्रियेस्तु वः. .25. श्रीमते वीरनाथाय सनाथायाभूत-श्रिया. महानन्द-सरोराज-मरालायाहते नमः. .26. कृतापराधेपि जने, कृपा-मन्थर-तारयोः. ईषद्-बाष्पार्द्रयोर्भद्रं श्रीवीर-जिन-नेत्रयोः. .27. जयति-विजितान्य-तेजाः सुरासुराधीश-सेवितः श्रीमान्. Jain Education Intemational Jain Education International For Private & Personal Use Only www.jainelibrary.org