________________ 52. सकलार्हत् स्तोत्र सकलाईत्-प्रतिष्ठान-मधिष्ठानं शिवश्रियः. भूर्भुवः-स्वस्त्रयीशान-मार्हन्त्यं प्रणिदध्महे. .1. नामाकृति-द्रव्य-भावैः पुनतस्त्रि-जगज्जनम्. क्षेत्रे काले च सर्वस्मि-न्नर्हतः समुपास्महे. .2. आदिमं पृथिवीनाथ-मादिमं निष्परिग्रहम्. आदिमं तीर्थनाथं च, ऋषभ-स्वामिनं स्तुमः. .3. अर्हन्त-मजितं विश्व-कमलाकर-भास्करम्.. अम्लान-केवलादर्श-संक्रान्त-जगतं स्तुवे. .4. विश्व भव्य-जनाराम-कुल्या-तुल्या जयन्ति ताः. देशना-समये वाचः श्रीसंभव-जगत्पतेः. .5. अनेकान्त-मताम्भोधि-समुल्लासन-चन्द्रमाः. दद्यादमन्द-मानन्दं, भगवा-नभिनन्दनः. .6. घुसत्किरीट-शाणाग्रो-तेजिताघ्रि-नखावलिः. भगवान् सुमतिस्वामी तनोत्व-भिमतानि वः. .7. पद्मप्रभ-प्रभोर्दैह-भासः पुष्णन्तु वः श्रियम्. अन्तरङ्गारि-मथने, कोपाटोपादि-वारुणाः. .8. श्रीसुपार्श्व-जिनेन्द्राय, महेन्द्र-महिताङ्घये. नमश्चतुर्वर्ण-सङ्घ-गगनाभोग-भास्वते. .9. चन्द्रप्रभ-प्रभोश्चन्द्र-मरीचि-निचयोज्ज्वला. मूर्तिर्मूर्त-सितध्यान-निर्मितेव श्रियेस्तु वः. .10. करामलकवद्विश्वं, कलयन् केवल-श्रिया. अचिन्त्य-माहात्म्य-निधिः सुविधिर्बोधयेस्तु वः. .11. सत्त्वानां परमानंद-कन्दोरेद-नवाम्बुदः. स्याद्वादामृत-निःस्यन्दी, शीतलः पातु वो जिनः. .12. भव-रोगात-जन्तूना-मगदंकार-दर्शनः. निःश्रेयस-श्रीरमणः श्रेयांसः श्रेयसेस्तु वः. .13. Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org