SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ 402 प्रमाणवात्तिक-भाष्यम् [ 3 / 368 तेपि नीलादयोऽपरोक्षरूपत्वादनुभवात्मकाः। ततः सुखादिवदेव स्वसम्बिदि योग्याः / नहि तेपि नीलादयः पररूपेणापरोक्षाः / ननु चक्षुरादिबलान्नीलादीनामपरोक्षता। न(।) स्वरूपेणैवापरोक्षत्वात् / नहि यतः चक्षुः प्रसृतं ततोऽपरोक्षं बीजे चक्षुः प्रसृतमपि कदाचिन्नापरोक्षयति / अप्रसृतत्वेप्यपरोक्षत्वसम्भवात्। तथा हि। " रागादिसम्भवे रूपमन्ययवावभासते। चक्षुषः प्रसृतत्वेपि स्वरूपानवभा (स)नात् // 1016 // यदि चक्षुरादिकस्याभिमुखीकरणेपि स्वरूपेण विषयस्यानवभासनं कथमसावपरोक्षः / स्वरूपावभासनमेवापरोक्षता। अथ भावनावशादयं दोषश्चक्षुषः (1) तदाह / यदि भावनया चक्षुरादिकस्यान्यथा गतिः। भावनाबलतः सव्वं नीलादेरवभासनं / / 1017 / / ___ भावना हि वासनाऽपरनामिका चक्षुराद्यायातप्रतिभासस्य हेतुः। तदा वासनाबलभाविनः एव नीलादिप्रतिभासाः। 4 . नन्वन्यथा प्रतिभासनं वासनांहेतुः। स्वरूपप्रतिभासनन्तु वासनामन्तरेणेति चक्षुरादिप्रतिबद्धं / न, परस्परापेक्षया.- सर्वेषामन्यत्वात् / ततोनेकप्रतिभासैन ज्ञायते कि स्वरूपमिति/प्रतिभासः प्रमाणं / चेद्वयभिचारी कुत आश्वासः। तस्मात् / प्रतिभासः समस्तोपि भावनाभावनिर्मितः / स्वरूपाभिमतादन्यप्रति भासस्वरूपवत् // 1018 // बाध्यबाधकभावस्तु प्रत्युक्त एव। तस्मात्स्वसम्वेदनमेन फलं बाह्येप्यर्थे, तदाकारः प्रमाणम् / / ननु साकारं विज्ञानमिति न युक्तं। तथा हि / यदि दर्पणवत्स्वच्छमाधानोपरागतः। तदावभासनं प्राप्तं चक्षुरादि . चेक्ष्यते // 1019 / / यावत्सन्निहितं सर्च दर्पणे तत् प्रकाशते / ततः सर्वस्य रूपादेरवभार्सः प्रसज्यते // 1020 // अथ दर्पणवच्चक्षुरवभासस्य कारणम् / तत्संक्रान्तस्य दृष्टिः स्यादस्थूले दर्पणादिवत् // 1.21 // ततो न ज्ञायते रूपं कीदृक्किं परिमाणकम् / वर्णस्यापि विपर्यासः काचाभ्रपटलादिवत् // 1022 // गोलकादथ निष्क्रम्य रूपादिवनिपातिनः / जायन्ते निजरूपेषु ग्राहका महृदादिषु // 1023 // विशिष्टं जायते रूपं प्रदीपालोकसङगमात् / ...... जा यदि स्वरूपसम्वित्तिः प्रदीपालोकसडिगवत् // 1024 // न स्यात्तत्रापि चान्यस्य व्यापारादनवस्थितिः / / अथ स्वरूपसम्विन्तिः तदा ते रमयः कथम् // 1025 // तस्मादर्थे स्थिते ज्ञानं तदाकारं प्रवर्तते / तस्मादुत्पादमात्राच्चेत्सर्वाकारं प्रसज्यते // 1026 // यत एव तदुत्पत्तिः तदाकारं भवेद्यदि / चक्षुराकारतापि स्याज्जायते वित्तितोपि यत् // 1027 / / अत्रोच्यते। सर्वमेव तु' विज्ञानं विषयेभ्यः समुद्भवत् / तदर्थस्यापि हेतुत्वे कथं चिद्विषयाकृतिः // 368 // - ' B. हि 2 B तदन्यस्या०
SR No.269721
Book TitleHisayasu Kobayashi
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages102
LanguageEnglish
ClassificationArticle
File Size10 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy