SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ 399 अर्थसंवेदनचिन्ता ] - प्रत्यक्षम् पेक्ष्य तथेति चेत् / नानुमानस्य सामर्थ्यदर्शनात् / प्रत्यक्षस्यैव सामर्थ्य मिति चेत् / नानुमानस्य प्रामाण्याप्रसङ्गात् / भवतु प्रत्यक्षमेव तदिति चेत् / तदेव तहि वासनाबलायातत्व· मध्यक्षस्यापीति न पारामार्थः। अपि च (0) विपर्ययेप्यनुमानमस्त्येव तत्कथमदुमानद्वयम्भवेत् / उभयपक्षे भवत्विति चेत् / न (1) प्रतिपुरुषं भावव्यवस्थाप्रसङ्गात्। भवतु को दोष इति चेत् / तदेव स्वसम्वेदनमायातं / परस्परामिश्रणेनासाधारणत्वात् () तस्मात्परस्तथा न प्रतिपद्यते तथापिं साधारणत्वेन प्रतीतिः। अथैतदेव कुतः परो न प्रतिपत्तिमानिति / अनुमानेनेति चेत् / विपर्ययेपि तहि प्रवर्ततामनुमानं। विपर्ययेनुमानमसदिति चेत् / कथं / एकत्वेन प्रतिबन्धाग्रहणात् / सादृश्येप्यनुमानं कृतार्थमेव / इह तु पुनरदर्शनानुरूपा क्रिया दृश्यमाना नियमेनादर्शनमनुमापयति / एतच्च पर एवाभ्युपगच्छति / तथैवादर्शनात्तेषामनुपप्लुतचेतसाम / दूरे यथा वा मरुषु महानल्पोपि दृश्यते // 356 // यद्यसावर्थः परेणापि दृश्यत इति / एवं परस्याप्यभ्युपगमः। तथा महानेवायमिति, प्रतिपत्त्या तदथितयोपसर्पणं साधारणमिति कृत्त्वातस्मादन्यशनुमाने परित्यजत्येव ता.दृष्ट मित्यनुमानं सकल सकलजनप्रसिद्ध पराभ्युपगमेन तु तत्त्वदर्शिनां। अथवा यदेव प्रतीयते यथा तादृशादर्शकल्पने कोऽवसरः / अनुमानमपि स्वाकारमात्रपर्यवसाने सति प्रत्यक्षमेव / ननु बाहोप्यत्र दृश्यमानोऽदृश्यमानो वास्तीति व्यवहारिणाम्भवत्येव प्रतीतिः। भवतु सापि स्वात्मन्येव निमग्ना / यावत्प्रत्यक्षाभिमता + स्वात्मनिमग्नेति नापरं प्रतीतिबहिर्भूतं वस्त्विति विमयः / किञ्च साधारणप्रतीतिरपि भावनाबलादेव यथा स्वप्ने। कथन्तहि / मेयमानफलस्थितिः / अत्रोच्यते / __ 'यथानुदर्शनं चेयं मेयमानफलस्थितिः / क्रियतेऽविद्यमानापि ग्राह्यग्राहकसंविदाम् // 357 // तदेव प्रतीयमानं वस्तु तत्रास्तीति प्रतीतिविषयतया ग्राह्य स्वसम्वेदनरूपं परानपेक्षमिति ग्राहक स्वयमेव तथाभावात्प्रतीतिरूपं सम्विदिति / विकल्पेनानुभवादुपजायमानेन व्यवस्थाप्यते व्यवहारतः। अनुदर्शनं दर्शनानुरूपो विकल्पः। अविद्यमानापि अविद्यमानाप्तिके विषये ग्राह्यग्राहकसम्विदां / अथवाऽविद्या मनिग्रहणेन साधारणादौ प्राह्मादीनामिति में शेष उक्त एवान्यः / तस्मात्सम्विदेव परमार्थतो न त्रयम् / .. . नन्वात्मपरिणाम एव सकल इति कस्मादविद्यमानता / / यदि नाम तस्य तत्त्वादप्रच्युतस्य ते भेदपरिणामाः।तदाह / अन्यथकस्य भावस्य नानारूपावभासिनः / ___ सत्यं कथं स्युराकारास्तदेकत्वस्य हानितः // 358 // ' चक्षुषाम् इति हे. B 3 यथार्थ--इति हे, .......... . -
SR No.269721
Book TitleHisayasu Kobayashi
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages102
LanguageEnglish
ClassificationArticle
File Size10 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy