SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ अर्थसंवेदनचिन्ता ] प्रत्यक्षम् ननु वासनाकार्यत्वेन न प्रतिभाति कथम्बासनाकार्यता अकस्माद्धमाग्नि प्रतियतः कि बाधककार्यत्वं प्रतिभाति? पर्यालोचयतो भवतीति चेत् / वासनाकार्यत्वेपि समानं / जन्मान्तरादिवासनाप्रबोधस्यापि सम्भवात् / बृद्धस्य बालक्रीडास्वप्नसम्भववत् / ततश्च(1) जन्मान्तरादिदृष्टस्य प्रतिभास इतीरितं / वासनाबलभाव्ये वावभास इति निर्णयः / / 987 / / ततश्च पूर्वपूर्वस्य विज्ञानस्यावभासनं / सर्वत्र बाह्य विज्ञानाद्वाह्यमेवोपपादितम् // 988 / / अनादिवासनासङगविधेयीकृतचेतसाम् / विविधः प्रतिभासोयमेकत्र स्वप्नाशनाम् // 989 / / 1. कार्यत्वात्सकलं कार्यं वासनाबलसम्भवं / कुम्भकारादिकार्यम्वा स्वप्नदर्शनकार्यवत् / / - 90 // प्रधानमीश्वरः कर्म यदन्यदपि कल्प्यते / वासनासङगसम्मूढचेतः प्रस्यन्द एव सः // 991 // प्रधानानां प्रधानं तत् ईश्वराणां तथेश्वरः। सर्वस्य जगतः कर्वी देवता वासना परा // 992 // असमञ्जसवृत्तस्य होद्वेगप्रवत्तिनः / अन्यथा जगतः कर्ता प्रेक्षापूर्वक्रियः कथम् / / 993 / / स्वातन्त्र्ये वर्तमानस्य शक्तस्य परिजानतः / . ई असमञ्जसवृत्तित्वं यदि क: केन शिक्ष्यताम् / / 994 // उपदेशस्य दाता चेत्स एव स्वायजन्मनः / स्वयं कर्ता विरूपं यः तस्य का न्यायवादिता॥९९५।। असमञ्जसमाजाय विधाता चेत्समञ्जसं / प्रक्षालनादमेध्यस्य दूरमस्पर्शनम्वरम् // 996 / / अशक्यमन्यथाकर्तुमत्र शक्तिः कथम्मता / वासनाबलतः सोपि तस्मादेवं प्रवर्तते // 997 // .इति प्रधानेश्वरकर्तृवादनद्यः सदा शीघ्रवहाः प्रवृत्ता (1) विशन्त्य एक्क्षयतां प्रयांति तद्वासनामेयसमुद्रमेव // 998 // वासनव वरं मूढाः सदुपायेन मेध्यतां (1) तत एव समस्तस्य वांछितस्य प्रसिद्धयः / / 999 / / __. तस्मादर्थग्रहः कथमिति नाहं प्रष्टव्यस्तदभिप्रायपर्यन्तनयनार्थमेववहन्तु पुनरीदृशन्न भवतः सर्वथा समर्थयितुं शक्तः / अतिदुविहितं यत्तु कः समर्थयितुं क्षमः / अत्यन्तपूतिबीजस्य कर्षकः किं करिष्यति // 1000 / (ज) विज्ञप्तिमात्रतायां प्रमाणफलव्यवस्था ननु यदि प्राामाहकाकारता नास्ति कथन्तथाव्यवहारः। अयमपि भवतो व्यामोह एव (1) नहि पाहादिव्यवहारोपि सम्बिवितः। संबित्स्वरूपे निमज्जनात् / तदात्मक एव व्यवहार इत्यर्थः। तथा हि / अविभागोपि बुद्ध यात्मविपर्यासितदर्शनैः। ग्रााग्राहकसंवित्तिभेदवानिव लक्ष्यते // 354 // मन्त्राद्युपप्लुताक्षाणां यथा मृच्छकलादयः।। अन्यथैवावभासन्ते तद्रूपरहिता अपि // 35 // अविभागो बुद्धधात्मेति स्वसम्वेदनप्रसिद्धमेतत् / तथा च प्रतिपादितम् / विपर्य) स्तदर्शनस्तु प्राह्मादिरूपेण गृह्यते / न, अपि तु लक्ष्यते / परेण वभावेपि दृश्यत इति विपर्यासमारोप्य तथा व्यवहारः। वर्शनमेतदिवानी मम, बाह्यं तु परेण वृष्टमासीदेव / एतत्पुनरसौ म विचारयति (1) परेण मद् दृष्टं तन्मया दृष्टमिति कयम् / नहि परोप्येवं जानाति / तस्यापि तदस्मत्सम्बेरनवदेवासाधारणम् / अथ सोपि मया दृष्टमित्यनुमानादेव
SR No.269721
Book TitleHisayasu Kobayashi
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages102
LanguageEnglish
ClassificationArticle
File Size10 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy