SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ बन्ध त्य ... अर्थसंवेदन-चिन्ता] प्रत्यक्षम् सर्वञ्चाप्यस्मदादीनां मिथ्याज्ञानं विकल्पनात् / सान्निध्यविप्रकृष्टत्वे सत्त्वादि न च दुर्लभम् // 911 // इदं सन्निधानम्भगवतः / ततो देशनाधर्मस्य विपर्ययश्चतयोः। इदं सदिदमसदिति किल दुर्लभमसत्यत्वादेतत्साधकस्य विकल्पात्मनः / तदेतद्वासनाबलनियमादसदपि परमार्थतः सदेव / बौद्ध दर्श न एकस्मिन् पक्षपातोपि युज्यते / मृषात्वेपि च बुद्धीनां बाघो नैवोपलभ्यते // 912 // द्ववासनायास्तथा भावाद्वाधके सैव कारणम ||भ्रान्तत्त्वस्य कथम्वित्तिरसति प्रतिनकारि // 913 / / 'प्रतिपादितमेतत्प्राक् न पुनः पुनरुच्यते / यदि वासनाबलादेव परवशस्य प्राणिनो भवतः सत्त्यासत्त्यावभासौ / तौ च बाधितुमशक्यौ किमिदानीम्विवादेन परवादिबोधनेन वा। यदि तस्य वासना प्रबोधाभिमुखी स्वयमे (व) प्रतिपत्स्यते। अथ न(नगं) वचनशतादपि / / तदसत्यम् / वासनायाः प्रबोधोयं यथानेनाभवन्मम / तथास्यापीति विज्ञाय वचनं वर्तयेत्परः // 914 // ततो यदुक्तं / मृषात्त्वं यदि बुद्धश्च वाधः किन्नोपलभ्यते / बाधाद्विनापि तच्चत्स्याव्यवस्था न प्रकल्पते // 915 / / प्रतियोगिनि दृष्टे च जाग्रज्ज्ञाने मृषा भवेत् स्वप्नादिबुद्धिरस्माकंतर भेदोपि किंकृतः // 916 / / न चान्यः प्रतियोग्यस्ति जाग्रज्ज्ञानस्य शोभनः।। यद्दर्शनेन मिथ्यात्त्वं स्तम्भादिप्रत्ययो ब्रजेत् / / 917 // स्वप्नादिप्रतियोगित्वं सर्वलोकप्रसिद्धितः / तदीयधर्मवैधावाधकप्रत्यये यथा // 918 // -- __ तदपि पराकृतम् / यद्यपि वासनाप्रबोध एव सर्वस्य भवन्नवबोधो व्यामोहो वा तथापि परावबोधाय वचनं प्रवर्त्तयितव्यमेव / तथा हि स एव वासनाप्रबोधोऽनेन प्रकारेण मम जात आसीदन्यस्याप्येवमे भविष्यतीत्यवबोधाय वचनप्रवृत्तिः प्रतिनियतवासनाप्रबोषार्थ। तथाभतवासनाप्रबोधार्थितामवधार्य. ततो न व्यर्थता। ततो यदि बुद्धर्मषात्त्वं किन्न बाधोपलब्धिः। तथाभूतवासनाप्रबोधाभावात् / कथन्तहि मृषात्त्वपरिज्ञानं वासनाप्रतिबद्धत्वज्ञानादेव / द्विविधं हि मृषार्थत्वमसवर्थत्वं विसम्बादित्वञ्च / विसम्वावित्वं विपरीतवासनाप्रबोधतोऽविपर्यासवासनाप्रबोधतश्च सम्बादित्वमिति। .. . ननु सम्वादश्चेदस्ति कथमसदर्थत्त्वं / / अविसम्वादाकारस्यापि वासनाप्रतिबद्धत्वात् / न हि सम्वादिप्रतिभासेप्यान्वयव्यतिरेकानुविधानमस्ति / एतदेवासदर्थत्वं/(1) ततः स्वप्नाविप्रत्ययसमानत्वादसवर्थता। न हि बाधकप्रत्ययात्स्वप्नादिप्रत्ययानामसदर्थता, येन तदभावात् जाप्रत्प्रत्ययसत्यत्वं भवेत् / लोकवार्तिके पृष्ठे 237 / ... श्लोकवार्तिके बौद्ध दर्शन एकस्मिन्पक्षापातोन युज्यते इत्युक्तस्य प्रत्याख्यानमिदम् / 3 श्लोकवार्तिके पृ. 237 बाधः, स्यावयवस्था, प्रत्ययों-इति पाठान्तरेण /
SR No.269721
Book TitleHisayasu Kobayashi
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages102
LanguageEnglish
ClassificationArticle
File Size10 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy