SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ 362 प्रमाणवात्तिक-भाष्यम् [ 3 / 331 मेव तत्। तत्राप्यालम्बनमस्त्येवेति चेत् / तस्मादर्थक्रिया न भवति / यदि नामार्थक्रियाकारि न भवति प्रतीयमानं त्वस्त्येव। न हयेकस्याभावेऽपरं न भवति / नहि धूमाभावादग्निर्न भवति / सर्वदा' ऽभावात्किशुकराशिवन्न भवत्येवेति चेत् / एवन्तर्हि तदर्थक्रियाकारि न भवति किंशुकराशिवत्। स्वेनरूपेणास्तु। किंशुकराशिः स्वेन रूपेणार्थक्रियाकारी भवतु न स्वप्नोपलब्धः। नहि स्वप्नभुक्तं पुष्टिकृत्। अथ रूपमेव तत्तथाविधं तेन नेति चेत्। न। स्वरूपसम्वेदनाद्विज्ञानमेव तदिति सूक्तं / / अथ सरूपत्वे को विरोधः। वासनाबलभावित्वं स्वप्रतीतत्त्वञ्च / अर्थ एव तादृशो भविष्यतीति चेत्। नामकरणमात्रकमेतत्। भवतोपि किन्नेति चेत् / (न(अपजरकारणाधीनस्य प्रतिपादनात्। तेन ज्ञानमेव तत्। तथा च। तस्याश्चार्थान्तरे वेद्य दुर्घटौ वेद्यवेदकौ // तथा मलाई नहि तदर्थान्तरं तस्या एव भवति रूपं / ततोऽप्रवेशे न वेदनं। प्रवेशे नार्थान्तरं। ननु यदि बुद्धिस्वरूपमेव तत्तस्य स्वसम्बिदितेन नीलादिना भवितव्यं / कथं परेणापि वेदनं (0) न। भ्रान्तिरेषा तैमिरिकद्वयद्विचन्द्रदर्शनवत्। तत्राप्यर्थ एवेति चेत्। तथा हि / अभ्रान्तः प्रत्ययो यद्वदर्थानां वेदको मतः / साधारणानां भ्रान्तोपि तथार्थस्यैव वेदकः // 702 // यथा साधारणत्वेन प्रतीयमानो, भ्रान्ताभिमतप्रत्ययार्थस्तथेतरोपि। तदयुक्तं / साधारणत्वमर्थस्य न प्रत्यक्षतयेक्ष्यते / प्रत्यक्षासम्भवादत्र नानुमानं न वेदनं / / 703 // न तावत्प्रत्यक्षेण परवेदनसाधारणता प्रतीयते। अन्यथा लिङगमन्तरेणैव सकलपरप्रतीतिवेदनप्रसङगः। अथ परेणापि प्रतीयमानं तादृशमेव तत्। ततः सैव तस्य साधारणतेति चेत् : यथा मर्यतत्प्रतीयते तथा परेणापि योग्यदेशस्थितेन प्रतीयत इति हि लोकप्रतीतिः। न। तैमिरिककेशादिषु स्वप्नदृष्टेषु चैवं प्रतीतेरभावात्। तत्रापि भवत्येवेति चेत् / इदमेव रूपं स्वप्नावस्थायामपि ततस्तत्समानत्वादसावपि बाह्य एव / न। भावनात्मप्रतिभास एव तादृशो न तु परः तत्रास्तीति लोकस्य प्रतीतिः एवं एतदेवस्थापीति समानं। परमार्थतस्तु स्वरूपप्रतिभासमात्रकमुभयत्रापीति न सालम्बनता। - जयर mss ननु स्वप्ने व्याकुलत्वमयत्ननिर्वत्त्यं सकलं तत् कथं समानता प्रत्ययानां / तदसत् / नीलादिप्रतिभासेभ्यः कान्या व्याकुलतेक्ष्यते / साप्यभ्यासबलायाता ततः कथमियं स्थितिः // 704 // नीलपीतादिप्रतिभास एव केवलः कृतोऽपरा तत्र व्याकुलताऽयत्नोपनतिश्च / / स्वप्ने प्रयत्नमन्तरेण भावो वृक्षादिस्थाने झटित्येव तांगादेरिति चेत्। ननु प्रयत्नमन्तरेण भाव इति केन परिगृहीतं, कार्यभाविना प्रत्ययेन कार्यमेव कारणभाविना तु कारणं। इदमतो भवतीति क्रमः। इदमन्तरेणेदमित्यपि क्रम इत्यध्यवसायः। न प्रत्यक्षमत्र नानुमानं। आकुलमेतदित्यपि न केनचिद्वद्यते। भावनाविशेषाच्च निराकुलतादिभावः स्वप्नेपि। तथा जाग्रदवस्थायामपि। अरिष्टादावाकुलतादर्शनं। अरिष्टदोषादेव चेत् / न। अरिष्टानरिष्टयोन्विशेषाभावात्। तत्राप्यपरेण विवेककारिणा भवितव्यं / तत्राप्यपरेणेति नैवं भूतोस्ति यतो विवेकः / स्वयमेव विवेक इति चेत्। न / स्वरूपनिष्ठितामात्रत्वादस्य। नहि स्वरूपनिष्ठस्य परसम्वेदनं / स्वरूपमात्रवेदनं त्वाकुलानाकुलसमानं / / दीर्घकालानुबन्धि
SR No.269721
Book TitleHisayasu Kobayashi
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages102
LanguageEnglish
ClassificationArticle
File Size10 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy