SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ 352 प्रमाणवात्तिक-भाष्यम् . [ 3 / 328 ..... यदप्युक्तं। अथ "सोऽनुभवः क्वास्येति। तत्राप्युच्यते / आत्मा स तस्यानुभवः स च नान्यस्य कस्य चित् / - प्रत्यक्षप्रतिवेद्यत्त्वमपि तस्य तदात्मता // 327 // . स्वरूपस्य हि पदार्थानां कारणमन्तरेण नोत्पत्तिरिति कारणप्रश्नो युक्तिमान्। तत एतदिति। क्वापमिति तु कः प्रश्नार्थः। तथा हि। क्वायमनुभव इत्युक्ते यदा प्रत्युच्यते पुनः / अर्थेतदापि प्रश्नःस्यात् सोर्थः क्वेत्यनवस्थितिः / / 627 / / क्रीडनकप्रश्न एवम्विध इति चेत् / कस्मात्पर्यवसानस्य दर्शनात्। तथा हि सोर्थः क्वा भूमौ / सा क्वाएवमेव दृश्यते इति न पुनः पर्यनुयोगः। यद्येवमर्थस्यादर्शनादनुभवोपि स्वरूपेवस्थित एवमेव दृश्यतामिति किमाधारकल्पनया। अनेन षष्ठ्यर्थपर्यनुयोगोपि प्रत्युक्तः। तदाह / “स च नान्यस्य कस्यचित् / " कथं तहि प्रत्यक्षप्रतिवेद्योों निराकर्तुं शक्यः। तथा हि। प्रत्यक्षेण नीलं पश्यन्ति तद्वन्तः॥ नार्थस्यादर्शनादित्युक्तं। तदाकारतैव प्रत्यक्षवेद्या न व्यतिरिक्तोर्थः। तदाकार एवं नील इति व्यवह्रियते नान्यः / तस्मान्नीलात्मकोऽनुभवो नीलानुभवः शिलापुत्रकस्यशरीरमिति यथा। न हि षष्ठ्यर्थ इत्येव भेदः। यथाकथञ्चिदस्य भावात् / / अथवा स कथं प्रत्यक्षोनुभवो यदि तस्यापरोनुभवो नास्ति / न स्वरूपगतेनैवानुभवेन सुतरां प्रत्यक्षता। पररूपे प्रत्यक्षताऽयोगात् / नहि तद्रूपमन्यस्य। तथा चेत्। अन्य एव भवेत् / अथवाऽपरोक्षं विज्ञानं यस्यानुभवः सोऽर्थो भविष्यति / यद्येवमात्मा स तस्यानुभवः / अन्यत्रावेद्यमानत्वात्। भवतु को दोष इति चेत्। “स च नान्यस्य / " यद्यात्माऽर्थस्य स्यादन्यस्यापि तथैव भवेदिति सर्व्वस्तद्दी भवेत्। न चान्यस्य तथा। ननु प्रत्यक्षेण वेद्यते नात्मना। न / तदेव रूपं पृथग्व्यवस्थाप्य कल्पनया तथा व्यपदेशः। तस्मादनन्यसम्वेद्यो नीलाद्यात्मवानुः वः।। अथवा यद्यर्थो नानुभूयते फिमिदं बहिर्देशसम्बद्धतयाऽनुभवगोचरः। आत्मैवानुभूयते। चित्तमेवानुभूयते। कथं बहिर्देशता / ' स च नान्यस्य। ततोसौ कुतो बहिर्भूतः।। अथवाऽऽत्मा स आत्मैवेदमर्थमिति भवतोप्यभ्युपगमात् / तस्य चानुभवः स च नान्यस्य अपि त्वात्मन एव तद्वयतिरिक्तस्याभावात् / (अथवा तत्स इति चेत् / न। प्रत्यक्षप्रतिवेद्यत्वात्। यतस्तदात्मनैव प्रत्यक्षप्रतिवेद्यत्वं नान्यथा। बार नन्वात्मवादः प्रसक्तः। न (1) चित्राकारसम्वेदनात्। अविद्यावशेनोत्पत्तिः सम्वेदनमेव * तत्। नात्मवाद उपयोगी। निरात्मकत्त्वन्तु वा रागादिप्रशमानुकूलमिति न दोषः। एतदेवोत्तरेण दर्शयति। RACK..in / नान्योनुभाव्यस्तेनास्ति तस्या नानुभवो परः। 13 तस्यापि तुल्यचोद्यत्वात्स्वयं सैव प्रकाशते // 328 // बुद्धया योनुभूयते स नास्ति परः। यथान्योनुभाव्यो नास्ति तथा निवेदितं / तस्या। स्तहि परोऽनुभवो बुद्धरस्तु। न(1) तत्रापि ग्राहयग्राहकलक्षणाभावः / परं हि सम्वेदनस्वरूपेऽर वस्थितं कथं परस्यानुभवः। साक्षात्करणादिकं प्रत्याख्यातं। तत्सम्वेदनानुप्रवेशे च तयो__ रेकत्वमेव स्यात्। तथा च स्वयं सैव प्रकाशते न ततः पर इति स्थितं / .. 15-i-MAR . ..
SR No.269721
Book TitleHisayasu Kobayashi
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages102
LanguageEnglish
ClassificationArticle
File Size10 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy