________________ 184 ભારતીય તત્વજ્ઞાન तस्माद् दृष्टस्य भावस्य दृष्ट एवाखिलो गुणः / भ्रान्तेनिश्चीयते नेति साधनं संप्रवर्तते / / 47 // (पृ० 17) (3) પ્રત્યક્ષ જ્ઞાન સર્વદર્શી હોવા છતાંય સર્વનિશ્ચાયક નથી તથા કોઈ પણ નિશ્ચાયક જ્ઞાન સર્વનિશ્ચાયક નથી. (આ સંબંધમાં (2) પણ જોવું જોઈએ.) यद्यप्यंशरहितः सर्वतो भित्रस्वभावोऽनुभूतः तथापि न सर्वभेदेषु तावता निश्चयो भवति कारणान्तरापेक्षत्वात् / अनुभवो हि यथाविकल्पाभ्यासं निश्चयप्रत्ययान् जनयति / यथा रूपदर्शनाविशेषेऽपि कुणप-कामिनी-भक्ष्यविकल्पाः....सोऽपि भवन्निश्चयोऽसति भ्रान्तिकारणे भवति ।...न प्रत्यक्षं कस्यचिनिश्चायकम् / तद् यमपि गृह्णाति तन्न निश्चयेन / किं तर्हि ? तत्प्रतिभासेन / तन्न निश्चयानिश्चयवशात् प्रत्यक्षस्य ग्रहणाग्रहणे | नैवं निश्चयानां, किञ्चिनिश्चिन्वन्तोऽप्यन्यत्रानिश्चयेन प्रवृत्तिभेदाद् ग्रहणाग्रहणम् / (पृ० 20) (4) પ્રત્યક્ષની જેમ અનુમાન સાક્ષાત્ અર્ધજન્ય ન હોવા છતાં પ્રત્યક્ષની જેમ જ પ્રમાણ કઈ રીતે? एते कार्यस्वभावानुपलब्धिलक्षणास्त्रयो हेतवः ।...तत्र द्वौ वस्तुसाधनावेकः प्रतिषेधहेतुः / ...एतौ द्वावनुमेयप्रत्ययौ साक्षादनुत्पत्तेरतत्प्रतिभासित्वेऽपि तदुत्पत्तेस्तदव्यभिचारिणाविति प्रमाणं प्रत्यक्षवत् / प्रत्यक्षस्यापि ह्याव्यभिचार एव प्रामाण्यम्, तदभावे भाविनस्तद्विप्रलम्भात् / अव्यभिचारश्चान्यस्य कोऽन्यस्तदुत्पत्तेः / अनायत्तरूपाणां सहभावनियमाभावात् / (पृ. 2) (5) પ્રત્યક્ષપૃષ્ઠભાવી વિવકલ્પ કયા અર્થમાં અપ્રમાણ? गृहीतग्रहणान्नेष्टं सांवृतम्... (प्र. वा. 1/5) गृहीतग्रहणान्नेष्टं सांवृतं दर्शनोत्तरकालं सांवृतं विकल्पज्ञानं प्रमाणं नेष्टं दर्शनगृहीतस्यैव ग्रहणात् तेनैव च प्रापयितुं शक्यत्वात् सांवृतमकिञ्चित्करमेव / मनोरथ (6) પુરુષવચનોનું પ્રામાયકેટલી હદ સુધી તથા ધાર્મિક આગમોનું સ્વતંત્ર પ્રામાણ્ય કયા વિષયોમાં ? . न हि शब्दा यथाभावं वर्तन्ते यतस्तेभ्योऽर्थप्रकृतिनिश्चीयेत / ते हि वक्तुर्विवक्षावृत्तय इति तन्नान्तरीयकास्तामेव गमयेयुः / न च पुरुषेच्छाः सर्वा यथार्थभाविन्य: / न च तदप्रतिबद्धस्वभावो भावोऽन्यं गमयति / यत्त दम्- . . . . "आप्तवादाऽविसंवादसामान्यादनुमानता" (का० 219) इत्यागमस्यानुमानत्वमुक्तं तत्कथम् . ? नायं पुरुषोऽनाश्रित्यागमप्रामाण्यमासितुं समर्थोऽत्यक्षफलानां केषाञ्चित् प्रवृत्तिनिवृत्त्योर्महानुशंसाऽपायश्रवणात्, तद्भावे विरोधादर्शनाच्च / तत्सति प्रवर्तितव्ये वरमेवं प्रवृत्त इति परीक्षया प्रामाण्यमाह / (पृ० 71-72) Jain Education International For Private & Personal Use Only www.jainelibrary.org