________________
३००
Jain Education International
નિર્પ્રન્થ ઐતિહાસિક લેખ-સમુચ્ચય-૧
नन्दीश्वरस्य गिरिनारगिरीश्वरस्य श्रीस्तम्भनस्य भविका अवतारतीर्थम् । संवीक्ष्य यत्र परमां मुदमुद्वहन्ति श्रीमानसौ विजयतां गिरिपुण्डरीकः ||२१||
स्वर्गाधिरोहभवने जगतां कृपालुयंत्र प्रभुर्विनमिना नमिना च सेव्यः । तत्खड्ग- बिम्बनकृताऽपररूपयुग्मः श्रीमानसौ विजयतां गिरिपुण्डरीकः ||२२||
श्रीषोडशो जिनपतिः प्रथमो जिनेश: श्रेयांसनेमिजिनवीरजिनेन्द्रमुख्याः ।
द्वितीयमिह यत्र पवित्रयन्ति श्रीमानसौ विजयतां गिरिपुण्डरीकः ||२३||
त्रैलोक्यलोचनचकोरक चन्द्रिकाभा सुस्वामिनी शिवगता मरुदेवीनाम्नी । यत्र प्रयच्छति निजं सुखसंविभागं श्रीमानसौ विजयतां गिरिपुण्डरीकः ||२४||
यत्रैष भव्यजनकल्पितकल्पवृक्षश्रीसङ्घरक्षणमहर्निशबद्धकक्षः । अष्टासु दिक्षु वितनोति कपर्दियक्षः श्रीमानसौ विजयतां गिरिपुण्डरीकः ॥ २५ ॥
( शार्दूलविक्रीडितम् )
इत्येवंविधपुण्डरीकशिखरीस्तोत्रं पवित्रं मुदा श्रीमन्नाभिनरेन्द्रनन्दनजिन ध्यानैकतानव्रतः । श्रद्धाबन्धुरमानसः पठति यः सन्ध्याद्वये नित्यशः स्थानस्थोपि निरन्तरं स लभते सत्तीर्थयात्राफलम् ॥२६॥
॥ इति श्रीशत्रुञ्जय - चैत्यपरिपाटी समाप्ताः ॥ “B”
॥ इति श्री शत्रुञ्जय महातीर्थपरिपाटीका समाप्ताः ॥ “A”
For Private & Personal Use Only
www.jainelibrary.org