SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ Vol. II - 1996 मुनिश्री यशस्वत्सागर त... ભાવ સંબંધ. આ પાંચેય સંબંધો અંગે પ્રસ્તુત કૃતિમાં ક્રમશઃ ચર્ચા કરવામાં આવી છે. સંયોગ, સમવાય, તાદાત્મ, અને તદુત્પત્તિ સંબંધ શબ્દ અને અર્થમાં કોઈ રીતે ઘટી શકે તેમ નથી તેની સયુક્તિક ચર્ચા કરી છે. છેલ્લે વાવાચક સંબંધ જ યુક્તિયુક્ત છે તેમ જણાવ્યું છે. પ્રસ્તુત કૃતિ પ્રમાણનયતત્ત્વાલો કાલંકારની રત્નાકરાવતારિકા-ટીકામાં થયેલી ચર્ચા સાથે મહદંશે શબ્દશઃ સામ્ય ધરાવે છે. તેથી આ કૃતિનો મૂળ આધાર રત્નાકરાવતારિકા-ટીકા હોવાનું સ્પષ્ટ છે. शब्दार्थसम्बन्धः या नमः वागर्थयोः शब्दपदार्थयोः को नाम सम्बन्धः ? संयोगो वा समवायो वा तादात्म्यं वा तदुत्पत्तिर्वा वाच्यवाचकभावो वेति पंचकं विचारणीयं वक्तव्यमेतत् न तावत् संयोग-सम्बन्धो द्रव्यद्वयोरेव संयोगस्य सत्त्वात् घटपटयोरिव सह्यविंध्याचलयोरिव । नापि समवायः गुणगुणिनोरेव समवायादात्मभूतमग्ने-रौष्ण्यमनात्मभूतं दंडीपुरुष इति । नापि तृतीयस्तयोस्तादात्म्यं न घटते, अत्र पक्षद्वयं शब्दात्मा अर्थो वाऽर्थात्माशब्दो वाच्यतयात्वच्चित्ते चकास्यात् ? यदि शब्दात्मा शब्दस्तदा समस्ता अपि शब्दाः स्वं स्वमात्मानमात्मना ख्यापयेयुः यथाऽशेषेभ्यः शब्देश्यः शब्दाद्वैते प्रसर्पति सति...... तंति-तल-ताल-वेणु-वीणा-मृदङ्ग सङ्गि-संगीतकारम्भनिभृत भुवनत्रयं भवेदित्यथ तच्छब्द वाच्यश्चेदर्थस्तर्हि तुरग-तरंग-श्रृंगार-शृंगारानलानिल-मोद-मोदकादिशब्दोच्चारणे चूरण-प्लावनसंभोग-वदनदाहोड्डयन-प्रीति-तृप्त्यादि-प्रसङ्गप्रसक्तेः । किंचातीतानागत सङ्ग वर्तमानकालत्रितया विवर्ति पदार्थसार्थकथा प्रथाऽवृथाऽपि यथा-तथा स्यात् न हि वृक्षात्मा शिशपा तमन्तरेण क्वपि संपद्यते वृक्षात्मा शिशपा एव वृक्षत्वमन्तरा नोपपद्यते यदा स नैव तथात्वे हि स्वरूपमेवासौ जह्यात् येव स्तंभकुंभांभोरुहादिवत् । प्रत्यक्षेनैतयोः शब्दार्थयोस्तादात्म्यं न क्षमते । यथा ताल्वोष्ठरसनारदन-व्यापार-परायणः शब्दः कर्णकोटरकुटुम्बी खल्वभिलाप: प्रत्यक्षेण लक्ष्यते, क्षितितलावलम्बी कलशकुलिशादिभावराशिरिति कथमेतयोरैक्यं वक्तुं शक्येत ? तन्न तादात्म्यपक्षोपक्षेपः सूक्ष्मः । तुरायस्तदुत्पत्तिपक्षः शब्दादर्थ उन्मज्जेदर्थाद्वा शब्दः ? प्राचिपक्षे कलशादि शब्दादेव तदर्थोत्पत्तिर्न कापि दरीदृश्यते । सूत्रदण्डचक्रचीवरादिकारणकलापमीलनक्लेशं किमर्थमाश्रयेत् । शब्दोच्चारणमात्रादेव तत्सिद्धेः प्रकृतप्रयोगारम्भाभियोगो निरुपयोगः स्यात् । द्वितीये पुनरनुभवबाधनम् अधररदनरसनादिभ्यः शब्दोत्पत्तिसंवेदनादिति तदुत्पत्तिसम्बन्धसम्भवनिराकरणम् । अथ वाच्यवाचकभावपक्षोऽपि न क्षेमकारः । यतोऽसौ वाच्यवाचकयोः स्वभावभूतस्तदतिरिक्तो वा भवेत् प्राचिविकल्पे तौ शब्दार्थावेव न कश्चिद्वाच्यवाचकभावसम्बन्धः । द्वितीयपक्षे एकान्तेन भेदो वा कथञ्चिद्भेदो वा तत्त्वेकान्तभेदे भेदत्रितयं त्रोकते किमयं नित्यो वाऽनित्यो वा नित्यानित्यो वा ३ नित्यश्चेत् सम्बन्धिनोरपि नित्यत्वापत्तेः अन्यथा सम्बधस्याप्यनित्यत्वानुषंगात् तत्संबंधि संबद्धश्चभावद्रव्य.....ते स्तै सम्बन्धिभिरुभयः सम्बन्धस्तस्यस्वभावस्य पतनात् । अथानित्यस्तदा सर्ववाच्यवाचकेष्वेकः, प्रतिवाच्यवाचकं भिन्नो वा ? एकश्चेत्तर्हि तदेकस्मादेव शब्दादशेष पदार्थप्रतिपत्तिप्रसङ्गः । द्वितीयपक्षे तु किमसौ तत्र सम्बद्धोवाऽ सम्बद्धो वा भवेद् ?असम्बद्धश्चेत्तर्हि घटशब्दात्पटप्रतीतिः पटशब्दाद्घटप्रतीतिः । द्वयोरपि वाच्यवाचक योरुभयत्राविशेषात् । अथ सम्बद्धसम्बन्धस्तादात्म्येन वा तदुत्पत्त्या वा ? न तावत्तादात्म्येन भेदपक्ष कक्षीकारात् । न तावत्तदुत्पत्यात् [यतः] किमयं वाच्योत्पत्तिकाले जायेत वाचकोत्पत्तिकाले वा युगपदुभयोत्पत्तिकाले वा एकस्य प्रथममुत्पादेऽपि यदैव द्वितीय उत्पद्येत तदैव वेति? विकल्पचतुष्ट्यम् । तत्राद्यौ द्वावेव पक्षावक्षणौ, द्वयाधारत्वेनास्यान्यतरस्याप्यसत्तायामुत्पत्तिविरोधात् । तार्तीयीक विकल्पे तु क्रमेणोत्पदिष्णवः पदार्थाः शब्दार्थाऽवाच्या अवाचकाश्च भवेयुस्तुरीयपक्षे तु किमसौ वाच्यवाचकाभ्यामेव सकाशादुल्लसेद्, अन्य एव संकेतादपि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.249333
Book TitleShabdartha Sambandha
Original Sutra AuthorN/A
AuthorJitendra B Shah
PublisherZ_Nirgrantha_1_022701.pdf and Nirgrantha_2_022702.pdf and Nirgrantha_3_022703.pdf
Publication Year1996
Total Pages4
LanguageGujarati
ClassificationArticle & Literature
File Size309 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy