________________ 66 स्थितं पुण्डरीकाचलस्यावतारे - ऽखिलक्ष्माधरश्रेणिशृङ्गारहारे / तृतीयं जिनं कुन्ददन्तं भदन्तं स्तुवे पावके भूधरे शंभवं तम् // 5 (? 4) / प्रभो ! मज्जता भीमसंसारकूपे मया देव ! लब्धोऽसि दुःखैकरूपे / दृढालम्बनं यस्त्वमेवोल्लसन्तं स्तुवे पावके भूधरे शंभवं तम् // 6 (5) / / ददास्यङ्गिनां देव ! सर्वार्थसिद्धि हरस्युग्रमिथ्यात्वमोहादिबुद्धिम् / अतोऽभीष्टदो यस्त्वमेवोल्लसन्तं स्तुवे पावके भूधरे शंभवं तम् // 7 (6) // प्रभो ! देवरत्नं मया लब्धमद्य समासाद्वितः कल्पवृक्षोऽपि सद्यः / यतः प्रापि भाग्योदयैर्यो भवन्तं स्तुवे पावके भूधरे शंभवं तम् // 8 (7) / चांपानेरपुरावतंसविशदश्रीपावकाद्रौ स्थितं सार्वं शंभवनायकं त्रिभुवनालङ्कारहारोपमम् / इत्थं यो गुरुभक्तिभावकलितः संस्तौति तं वृण्वते ता: सर्वा अपि मङ्गलोत्सवरमा भोगान्विताः सम्पदः // 9 (8) / इति श्रीपावकपर्वतमण्डन शंभवजिनस्तोत्रं सम्पूर्णम् / / Jain Education International For Private & Personal Use Only www.jainelibrary.org