________________
65
जय जय कनकरजतमणिवरणत्रयमध्यासित हे ! २ । जय जय मरकतनिचितहरितकरनिकरोद्भासित हे ! जय० ॥६।। जय जय वसुधामण्डलमण्डन ! वामानन्दन हे ! २। जय जय दुर्मतवननिःकन्दन ! नयनानन्दन हे ! जय० ॥७॥ जय जय वीतराग ! रागाद्यरिवारविदारण हे ! २ । जय जय बोधिरूपचन्द्रोदयनिरुपमकारण हे ! जय० ॥८॥
इति श्रीपार्श्वजिनलघुस्तवनम् ।।
। (३)
श्रीविवेकरत्नसूरिगुरुभ्यो नमः ॥ महाप्रातिहार्यश्रिया शोभमानं सुवर्णादिरत्नत्रयीदीप्यमानं । स्फुरत्केवलज्ञानवल्लीवसन्तं स्तुवे पावके भूधरे शंभवं तम्
॥ १ ॥ कलाकेलिकेलीविनाशैकदक्षं समस्ताङ्गिनां प्रार्थिते कल्पवृक्षम् । त्रिलोकीतले पापपूरं हरन्तं स्तुवे पावके भूधरे शंभवं तम् महाभाग्यसौभाग्यभङ्गीधरं तं स्तुवे० ॥ २ ॥ महामोहसर्पप्रणाशे सुपर्ण प्रभामण्डलोल्लासिगाङ्गेयवर्णम् । सुधासोदरोल्लासिवाणीविलासं प्रमादादिविद्वेषिदत्तप्रवासम् । त्रिलोकीस्थितान् सर्वभावान् विदन्तं स्तुवे पावके भूधरे शंभवं तम्
।। ४ ।। (? ३॥)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org