________________ ऑक्टोबर 2002 (11) ॐ अहँ जीव त्वं कर्मणा बद्धः, ज्ञानावरणेन बद्धः, दर्शनावरणेन बद्धः, वेदनीयेन बद्धः, मोहनीयेन बद्धः, आयुषा बद्धो, नाम्ना बद्धो, गोत्रेण बद्धः, अन्तरायेण बद्धः, प्रकृत्या बद्धः, स्थित्या बद्धः, रसेन बद्धः, प्रदेशेन बद्धः, तदस्तु ते मोक्षो गुणस्थानारोहक्रमेण अर्ह ॐ // (39-2) ॐ अहँ कामोऽसि, अभिलाषोऽसि, चित्तजन्मासि, सङ्कल्पजन्मासि, काम्योऽसि, सेव्योऽसि, प्रियोऽसि, मान्योऽसि, शब्दोऽसि, रूपोऽसि, रसोऽसि, गन्धोऽसि, स्पर्शोऽसि, सर्वगोऽसि, सर्वव्यापकोऽसि, सर्वार्थोऽसि, आनन्ददोऽसि, ऊह्योऽसि, मदनोऽसि, मथनोऽसि, उन्मादनोऽसि, मोहनोऽसि, तापनोऽसि, शोषणोऽसि, मारणोऽसि, विकृतिरसि, अजेयोऽसि, दुर्जयोऽसि, प्रभुरसि नमस्ते अर्ह ॐ // (41-1) Jain Education International For Private & Personal Use Only www.jainelibrary.org