________________
72
अनुसन्धान ३३
सम्पन्न इति । प्रातिपदिकार्थे सन्मात्रे प्रथमैव विभक्तिः, एवं चेत् प्रथमाया द्विवचन बहुवचनं वा क्रियताम्, किमेकवचनेन ? सत्यं, सङ्ख्याविशेषाभावा सर्वा । किं तर्हि एकवचनमेव ? तस्य उत्सर्गत्वेन विधीयमानत्वात् । तथा चोक्तम् - "एकवचनमुत्सर्गत: करिष्यत" इति प्रथमाविभक्त्यैकवचनान्तत्वं सिद्धिमिति।
एवं चेत्तर्हि विभक्तिः कथं न दृश्यते ? इत्युच्यते - क्त्वाद्यन्तं चेत्यव्ययसंज्ञत्वात् विभक्तेर्लुक् ।।
ननु नहि साक्षात् क्त्वा दरीदृश्यमानोऽस्ति तत्कथं, अव्ययत्वम् ? सत्यं, क्त्वास्थाने जायमानः क्यबादेशः क्त्वावन्मन्तव्यः । स्थानस्थानिनोरभेदोपचारात् स्थानिवद्भावात् इत्यर्थः । ततः क्त्वाद्यन्तं चेत्यव्ययत्वेन "अव्ययाद् विभक्तेर्लुक्" इति लुक् ।
ननु अत्र यः क्त्वास्थानीयः क्यब् उच्यते स कर्तरि कर्मणि भावे वा प्रयुज्यते, प्रोच्यताम् । “अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्ति" इति वचनात्, स्वार्थो भावः, ततोऽत्र भावे एव क्त्वाप्रत्ययः, कर्तृकर्मणोरनभिधानात् तत्र न भवति ।
एवं चेत्तर्हि भावस्य कर्मविहीनत्वात् ‘परमात्मानं' इत्यनेन सकर्मणा पदेन सह कथंकारं योगो विधीयते, भावे नित्यं कर्मणोऽविद्यमानत्वं -आकाशकुसुमवत् त्रिलोक्यां इति । नैवं- यत: सकर्मकाणां धातूनां पुरस्तात् भावविवक्षया उत्पादितः कृत्प्रत्ययः प्रत्ययस्वाभाव्यादेव कर्मत्वं न अपाकरोति । यदाहु:- "सकर्मकाणामुत्पन्न" इत्यादि । तेन नमेः सकर्मकाद्धातो वेपि विहितः, क्त्वा सकर्मैव भवतीति, 'परमात्मानं' इत्यत्र युक्तत्वम् ।
एवं चेत् क्यपः कृत्प्रत्ययत्वात् कर्मणि षष्ठी युज्यताम्, तथा च सति प्रणम्य परमात्मन इति पदेन भवितव्यम्, न द्वितीयान्तेन इति । कर्तृकर्मणोः "कृद्योगे षष्ठी" भवतीति वैयाकरणाः । नैवम् - "कर्तृकर्मणोः" अक्तदौ कृति षष्ठी" इति सूत्रे अक्तादौ इति निषेधसामर्थ्यात् क्तादिप्रत्यययोगे न कर्मणि षष्ठी, अक्तादिरित्यत्रादिशब्दः क्तसमानप्रत्ययसमुच्चयनार्थः, तथा च सति भावेपि विहितः क्त्वाप्रत्ययस्थानीयसकर्मैव भवतीति युक्तम् परमात्मानमिति कर्मवचनमिति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org