________________
September-2005
71
ननु च शास्त्रान्तरेषु "ओंकारश्चाथशब्दश्च" इति पाठो दृश्यते, ततोऽयं पाठोप्ययुक्तः,नैवं प्रशब्दशब्दनेन, साक्षात् ओंकार एवोपात्तः, यत:ओंकारापरपर्यायो प्रणव-शब्दोस्ति, तस्य पदैकदेशे समुदायोपचारात् । यद्वा"अवयविनि वर्तमानाः शब्दाः अवयवेष्वपि वर्तन्ते" इति वचनात् भीमोभीमसेन इत्यादिन्यायाद्वा प्रणवैकदेशे प्रशब्दे प्रणवे समुदायोपचारात् प्रशब्देन प्रणवग्रहणं सिद्धम् । सिद्धे च तस्मिन् ओंकारस्यैव उपादानं अङ्गीकृतं, तदङ्गीकारे च "ओंकारश्चाथ शब्दश्च" इति पाठोऽपि आदृत इति ।
प्रशब्दश्चाथ शब्दश्चेति पाठस्य ओंकारश्चाथेति पाठेन एकार्थीभावात नायमयुक्तः पाठ इति । एवं चेत्तर्हि भवतु नाम प्रणवे माङ्गल्यं, प्रकृते किम् ?, उच्यते-प्रस्य प्रणवशब्दस्यादौ स्थितत्वात् प्रणवकृतं माङ्गल्यं प्रशब्देपि अस्तीति प्रशब्दो माङ्गलिक इति । एवं तर्हि भवतु ।
शास्त्रादौ मङ्गलार्थो यः 'प्र'उपन्यासः, परं 'प्रणम्य' इति पदं समस्तं असमस्तं वा ? किंप्रत्ययान्तं सिद्ध्यतीति प्रोच्यताम् ? प्रणमनं पूर्वं प्रणम्येति प्रथमातत्पुरुषेण समस्तं पदं, क्यप् प्रत्ययान्तं चेति । कथमत्र क्यप् ? अस्य तत्पुरुषेण समस्तत्वात् समासे क्यबिति क्यप् । एवं चेत् क्यप: कित्वात् लोपस्तु अनुदात्ततनां इति मलोपः क्रियताम् । मैवं वोचः-लोपस्त्विति त ग्रहणं व्यवस्थाविभाषार्थं, तेनाऽत्र न मलोपः, पक्षे 'प्रणत्य' इत्यपि भवति । णत्वं तु प्रादेश्च तथा तौ इत्यनेन सिद्धमेव ।
ननु 'प्रणम्य' इत्यत्र का विभक्तिः ? किं वचनं ? चेति निगद्यताम्, उच्यते- तत्र विभक्तिः प्रथमा । प्रथममिति कथमत्र विभक्तिप्रतीति: ?, उच्यतेप्रणम्य इति पृथक्पदत्वात् विभक्तिमन्तरेण च न पदत्वापत्ति: "विभक्त्यन्तं पदम्" इति वचनात् ।
एवं चेतर्हि त्यादीनामपि विभक्तिसंज्ञा अस्त्येव, तर्हि "त्याद्यन्तं उत स्याद्यन्तं" इति, तत्र आद्यं न सम्भवति साक्षात् एव तदन्तत्वाभावात् । स्याद्यन्तं चेत् तस्यापि प्रत्यक्षानुपलक्ष्यमाणत्वात् न सम्भवः ।
नैवम्- "कृत्तद्धितसमासाश्च" इति कृतां नामसंज्ञात्वात् स्यादिर्भवत्येव । एवं चेत्तत्र का विवक्षामाश्रित्य विभक्ति-उत्पत्तिर्विधीयते ?, उच्यते विभक्त्यर्थप्रधाननिर्देशमाश्रित्य, स च विभक्त्यर्थः प्रातिपदिकार्थः सन्मात्रलक्षणः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org