________________ [8] दृष्टान्तः (1) / साध्यसाधनाऽभावजनितवैधाद्वैधर्म्यदृष्टान्तः / (2) इति / / 5 / 7. धूम० / धर्मिणि उपसंहरणं कोऽर्थ : ? दृष्टान्तर्मिणि विसृ(श्रु)तस्य साधनस्य साध्यमिण्युपनयनं तद्धर्मिण्युपसंहरणम् // 7 // 8. हे० / हेतुलक्षणरहिता हेतुवदाभासमानाः / नामकथनव्यतिक्रमः पाठानुकुल्यात् / // 8 // 9-10 सो० / अनिश्चिता संदेहगोचरीकृता विप्रतिपत्तिविषयीकृता वा // 9 // 10 // 11. सोऽने० / एकस्मिन्मते साध्यधर्मे नियत एकान्तिकस्तद्विपरीत; अनैकान्तिकः / व्यभिचारीत्यपि / नित्यः शब्दः प्रमेयत्वात् व्योमवदिति प्रयोगः // 11 // 12. प्रत्य० / आदिशब्दादनुमानागमादिग्रहः / प्रमाणाऽनुपहतपक्षोपन्या . साऽनंतरं हेतूपन्यासस्य समयः कालस्तदत्ययेऽतिक्रमे सति अपदिष्टः कालात्ययापदिष्टः कालातीत-समयातीत - बाधितविषया इत्यादिनामानि / अनलः शीतल: पदार्थत्वात् जलवदिति प्रयोगः प्रत्यक्षबाधोदाहरणम् / अनुमानबाधो यथापरमाणवोऽनित्या मूर्तत्वाद् घटवदित्यत्र ! परमाणवोऽनित्या अकार्यत्वादाकाशवदित्यनेन बाध्यते / नन्वस्यानुमानस्य को विशेषो येनेदं तद्बाधकमिति चेत् / यस्मादणुतरो नास्ति सक्रियो नित्य एव वा / नित्यत्वे सत्यजन्यो यः परमाणुः स लक्षितः / / 1 / / इत्यागमबद्धमूलत्वेन बलीयस्त्वम् / ततो बलवता दुर्बलं बाध्यत इति सार्वत्रिकन्यायादेतद् बाधकं स्यादिति // 12 // 13. साध्य० / पक्षः शब्दः सपक्षो व्योमादि, तयोरन्यतरत्वं एकतरत्वम् / पक्षत्वं सपक्षत्वं चेति यावत् / अयं चैक एव हेतुनित्यत्व इव / अनित्यः शब्दः पक्षसपक्षयोरन्यतरत्वाद् / घटवदिति / अनित्यत्वेऽपि त्रिरूपतया वर्तमानः प्रकरणसमः स्यात् / तथा नित्यः शब्दोऽनित्य धर्मरहितत्वादित्यादयोऽपि ज्ञेयाः / सत्प्रतिपक्ष इत्यप्यभिधा एतस्य // 13 // 'इत्यनुमान मातृकावचूर्णिः संपूर्णा / लिखिता राजपुर महानगरे / 1. इत्यनुमानमातृकाऽवचूरिः // (इति प्रत्यन्तरे / ) Jain Education International For Private & Personal Use Only www.jainelibrary.org