________________
xx
अनुसन्धान ३९
ताः शारदेन्दूपमपाण्डुवक्त्राः, कायेन चामीकरतुल्यभासः । तस्मादिमाः काञ्चनभित्तिभागे, वक्त्राण्यपश्यन्न हि शेषमङ्गम् १८१।। काचिनिशि व्योमगतेव देवी, वातायनस्योपरि संस्थिताऽपि । अलक्षिताऽलक्षितसौधमुच्चै-रेतत् किमासीद् वद कोविदाशु ||८२॥ शीतांशुरश्मिप्रकरावमग्ने, सा स्फाटिके सौधतले निषण्णा । अलक्षिताधःस्थितसौधमेवं, देवीव लोकैर्ददृशेऽम्बरस्था ॥८३!! कश्चित्करेणु-र्मदसिक्तरेणुः, प्रत्यापतन्तं कृतकोपमाशु । आत्मानमेवाऽभिदधाव दूरा-दाचक्ष्व किं कारणमत्र दक्ष ! ॥८४|| ऊौं महत्यम्बुनिधेरिभेशः, प्रत्यापतन्तं प्रतिबिम्बितं सः । आत्मानमेवं प्रविलोक्य कोपा-दन्येभशङ्कोऽभिदधाव दूरात् ॥८५।। यद्वेश्म वर्षास्वपि वारिदाना-माऽभेदि वाभिर्न कदापि मध्ये । तत् किं विभोः कस्यचिदम्बुयोगं, विनाप्यभूद् वारिमयं निशासु ॥८६|| 'शिशिररश्मिकरप्रकरप्लुतं", "प्रवरचन्द्रमणिस्फुटकुट्टिमम् । सदनमम्बु विनाऽपि निशास्वभूत्, सचिवशेखर ! वारिमयं ततः ॥८७।। वारिकेलिसमये वनिताभि-लब्धिमग्निसमिधां हि विनाऽपि । अन्वभावि शिशिरं पुनरुष्णं, किं तदेव सलिलं सरसोऽन्तः ॥८८।। उपरि तरणितापादुष्णमन्तस्तदम्भः,
शिशिरमिति विदान्तच्चक्रुरुष्णं च शीतम् । विषमविशिखतापादुष्णमङ्गेषु लग्नं,
तदितरमिति शीतं 'वाविदाञ्चकुरेताः ॥८९॥ सुरभिसङ्गसमुद्धतकोकिल-भ्रमरराजिविराजितकाननम् । निजगृहं पथिकश्चिरमागतः, कथमुदीक्ष्य तथैव पुनर्ययौ ॥९॥ १. अ.ब. गवाक्षस्य । २. ब. लग्ने । ३. ब. सौधं तु नृपमन्दिरम् । ४. ब. अनेन प्रकारेण । ५. अ. हस्ति । ६. अ.ब. सम्मुखमागच्छन्तं । ७. ब. प्रतिफलितं । ८. ब. प्रतौ 'आत्मानमेव' इति पाठः । ९. ब. शोते तुषार शिशिर इति । १०. ब. लापिनं । ११. ब. श्रेष्ठ । १२. ब. कुट्टिमत्वेस्यबद्धभू । १३. ब. विद् ज्ञाने । १४. ब. वसन्त इक्षुः सुरभिः पुष्पकालो बलाङ्गकः । १५ वाटिकां ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org