SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान-५८ लिङ्गज्ञानकरणकं पक्षे साध्यज्ञानमनुमानम् ॥२.२.१६।। व्यापारो व्याप्तिस्मृतिर्न परामर्शादिः ॥२.२.१७।। स्वार्थमेतत् ॥२.२.१८॥ लिङ्गमन्यथानुपपत्त्येकरूपं, न त्रिरूपादि ॥२.२.१९।। तदुपलब्ध्यनुपलब्धिभ्यां द्विधा ॥२.२.२०।। तद् द्वयं विरुद्धा-ऽविरुद्धाभ्यां द्विविधम् ॥२.२.२१।। अविरुद्धोपलब्धि-विरुद्धानुपलब्धिभ्यां विधिसिद्धिविरुद्धोपलब्ध्यविरुद्धानु पलब्धिभ्यां च निषेधसिद्धिः ॥२.२.२२॥ तत्राऽविरुद्धोपलब्धिाप्य-कार्य-कारण-पूर्वचरो-त्तरचर-सहचरैः षोढा ॥२.२.२३।। स्वभावविरुद्ध-विरुद्धव्याप्य-कार्य-कारण-पूर्वचरो-त्तरचर-सहचरैविरुद्धोपलब्धिः सप्तधा ॥२.२.२४।। विरुद्धकार्य-कारण-स्वभाव-व्यापक-सहचरानुपलम्भैविरुद्धानुपलब्धिः पञ्चधा ॥२.२.२५॥ स्वभाव-व्यापक-कार्य-कारण-पूर्वचरो-त्तरचर-सहचरानुपलब्धिभिरविरुद्धा नुपलब्धिः सप्तधा ॥२.२.२६॥ न तु स्वभाव-कार्या-ऽनुपलब्धिभिस्त्रिप्रकारमेव, कारणाद्यसङ्ग्रहात् ॥२.२.२७|| प्रमाणविकल्पोभयतः प्रसिद्धो धर्मी पक्षः ॥२.२.२८॥ यद् विना लिङ्गं नोपपद्यते तत् साध्यम् ॥२.२.२९।। अप्रतीता-ऽनिराकृता-ऽभीप्सितत्वानि तस्य सिद्धा[व]नुगुणानि ॥२.२.३०।। पक्षहेतुवचनाद्यात्मकं परार्थमुपचारात् ॥२.२.३१॥ व्युत्पन्नमतीन् प्रति द्वावेव प्रतिज्ञाहेतू, मन्दमतीन् प्रति तु प्रतिज्ञा-हेतू-दाहरणो पनय-निगमनानि पञ्चाऽप्यवयवाः प्रयोक्तव्याः ॥२.२.३२॥ प्रतिज्ञादित उदाहरणादितो वा त्रय एवोदाहरणोपनयौ द्वावेव, पञ्चाऽप्यवयवाः प्रयोक्तव्या इत्येकान्ते मानाभावः ॥२.२.३३।। साध्यवत्तया धर्मिणो वचनं प्रतिज्ञा ॥२.२.३४।। पञ्चम्यन्तस्य तृतीयान्तस्य वा लिङ्गस्य हेतुः ॥२.२.३५।। प्रतिबन्धप्रदर्शनपुरस्सरं साधर्म्यतो वैधर्म्यतो वा दृष्टान्तस्योदाहरणम् ॥२.२.३६।।
SR No.229486
Book TitleAnekant Tattva Mimansa
Original Sutra AuthorN/A
AuthorTrailokyamandanvijay
PublisherZZ_Anusandhan
Publication Year
Total Pages18
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size92 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy