________________
फेब्रुआरी २०१२
पक्षे लिङ्गस्योपसंहार उपनयः ॥२.२.३७॥ साध्यस्याऽबाधिततया पुनर्निगमनमिति ॥२.२.३८।।
॥ इति द्वितीयाध्याये द्वितीयः पादः ॥
आप्तवचनोत्थमागमः ॥२.३.१।। आप्तो यथादृष्टवक्ता ॥२.३.२।। लौकिक-लोकोत्तराभ्यामाप्तो द्विधा ॥ २.३.३॥ आद्यः पित्रादिर्द्वितीयस्तीर्थकरादिः ॥२.३.४॥ वर्णपदवाक्यं वचनं पौगलिकमेव ॥ २.३.५ ॥ न गुण, आगत्याद्यनुपपत्तेः ॥२.३.६॥ नित्यं द्रव्यं परार्थत्वान्नोत्पत्तिविपत्तितः ॥२.३.७॥ न, नादोपाधेर्व्यतिरिक्तस्याऽसिद्धेः ॥२.३.८॥ अभिव्यक्तिर्न विचारसहा ॥२.३.९॥
८९
अभिज्ञानं नाऽनाभासम् ॥२.३.१०॥
वर्णाः प्रतीता:, तेषामानुपूर्वीविशेषः पदं, पदानां वाक्यम् ॥२.३.११॥ अर्थे स्वाभाविकः प्रत्यायनशक्तिस्तत्सम्बन्धः ॥२.३.१२ ॥
शक्तिस्त्वन्यत्राऽप्यावश्यकी ॥२.३.१३॥
तदभिव्यञ्जकः सङ्केतो न सम्बन्धो, वाच्यवाचकभावनियमानुपपत्तेः ॥२.३.१४॥ यथार्थत्वा-ऽयथार्थत्वे त्वस्य वक्तृदोषगुणापेक्षे ॥२.३.१५।।
विधि-निषेधाभ्यां सर्वत्र सप्तभङ्गीमनुसरति ॥ २.३.१६॥ क्रमयौगपद्यतो विधिनिषेधकल्पनतः स्यात्काराङ्कितानामेवकारजुषां सर्वमस्तीति नाऽस्तीत्यस्ति नाऽस्ति चेत्यवक्तव्यमित्यस्त्यवक्तव्यमिति नाऽस्त्यवक्तव्यमित्यस्ति नाऽस्ति चाऽवक्तव्यमिति भङ्गानां सप्तानामेव भावात् ॥२.३.१७।। प्रतिपर्यायं धर्म-तत्संशय - जिज्ञासा - पर्यनुयोगानां सप्तानामेव भावात् तथाभावः
॥२.३.१८॥
प्रतिभङ्गं सकल-विकलादेशस्वभावा सप्तभङ्गी ॥२.३.१९ ॥ कालादिभिरष्टभिरभेदवृत्तितोऽनन्तधर्मात्मकवस्तुनो यौगपद्येनाऽभिधायकं वचः सकलादेशो, विपरीतमतो विकलादेशः ॥ २.३.२० ।।