________________
फेब्रुआरी - २०१२
स चतुर्दशरज्जुमानोऽसङ्ख्यातप्रदेशः ॥४.२.१४॥ तद्विपरीतोऽलोकोऽनन्तः ॥४.२.१५॥ एकद्रव्यत्वनिष्क्रियत्वं धर्मा-ऽधर्माभ्यां समानम् ॥४.२.१६।। वर्त्तनादिलिङ्गकः कालोऽनन्तसमयः ॥४.२.१७।। तस्य द्रव्यत्वं नेत्यपरे इति ॥४.२.१८॥
॥ इति तुर्याध्याये द्वितीय पादः ॥ उपयोगवान् जीवः ॥४.३.१॥ उपयोगः साकारोऽनाकारश्च ॥४.३.२।। आद्यो ज्ञानं द्वितीयो दर्शनम् ॥४.३.३॥ संसारी मुक्तश्च जीवः ॥४.३.४।। आद्यः सकर्मा ॥४.३.५॥ स त्रस-स्थावराभ्यां द्विधा ॥४.३.६।। आद्यः तेजोवायुद्वीन्द्रियादिपञ्चेन्द्रियान्तः ॥४.३.७।। पृथिव्यब्वनस्पतिभेदादन्त्यस्त्रिधा ॥४.३.८।। नाऽसौ निष्क्रियो, गतिमत्त्वात् ॥४.३.९॥ गतिरविग्रहा विग्रहा च ॥४.३.१०।। न नित्य एव, जन्मान्यथानुपपत्तेः ॥४.३.११॥ गर्भोपपात-सम्मू नभेदात् त्रिधा जन्म ॥४.३.१२।। न समनस्क एव, अमनस्कस्याऽपि सद्भावात् ॥४.३.१३।। नाऽसङ्गः, शरीरित्वानुपपत्तेः ॥४.३.१४॥ शरीरञ्चौदारिक-वैक्रिया-ऽऽहारक-तैजस-कार्मणभेदात् पञ्चविधम् ॥४.३.१५।। असङ्गत्वे आस्रवोऽपि नोपपद्यते ॥४.३.१६।। स हि काय-वाङ्-मनःकर्मयोगः ॥४.३.१७।। तदभावे बन्धोऽप्यनुपपन्नः ॥४.३.१८।। कर्मयोग्यपुद्गलग्रहणं हि सः ॥४.३.१९।। मिथ्यादर्शना-ऽविरति-प्रमाद-योगास्तस्य कारणानि ॥४.३.२०॥ तदभावे प्रकृति-स्थित्यनुभाव-प्रदेशबन्धा अपि विशेषा अनुपपन्नाः ॥४.३.२१।। प्रकृत्यभावे ज्ञानावरण-दर्शनावरण-वेदनीय-मोहनीयाऽऽयुष्क-नाम-गोत्रा-ऽन्तराया