SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान-५८ यन्निवृत्तावेव यस्योत्पत्तिः स ह्यस्य प्रागभावः ॥४.१.४।। यदुत्पत्तौ यस्य प्रच्युतिः स तस्य प्रध्वंसः ॥४.१.५।। स्वभावान्तरात् स्वभावव्यवच्छेदोऽन्योन्याभावः ॥४.१.६।। कालत्रयेऽपि तादात्म्यपरिणामनिवृत्तिरत्यन्ताभावः ॥४.१.७।। समवायो नाऽविष्वग्भावाद् व्यतिरिक्तोऽसिद्धेः ॥४.१.८॥ विशेषस्त्वन्त्यो निष्प्रमाणकः ॥४.१.९।। अन्यः पर्याये ॥४.१.१०॥ तिर्यगूर्खतासामान्यभेदतो द्विविधमपि सामान्यमनतिरिक्तम् ॥४.२.११॥ प्रतिव्यक्ति तुल्या परिणतिस्तिर्यक्सामान्यं पर्याय एव, पूर्वापरपर्यायानुगामी वस्त्वंश ऊर्ध्वतासामान्यं द्रव्यमेव ॥४.१.१२।। गुणवद् द्रव्यम् ॥४.१.१३।। न समवायिकारणमसिद्धेः ॥४.१.१४।। पर्यायवत्त्वन्तु द्रव्य-गुणयोः समानम् ॥४.१.१५।। प्रत्यभिज्ञानादितस्तु न तत्सिद्धिरिति ॥४.१.१६।। ॥ इति चतुर्थाध्याये प्रथमः पादः ॥ धर्मा-ऽधर्मा-ऽऽकाश-काल-जीव-पुद्गला द्रव्याणि ॥४.२.१॥ धर्मा-ऽधर्मा-ऽऽकाश-जीव-पुद्गलानामस्तिकायत्वं समानम् ॥४.२.२॥ कालस्याऽप्यस्तिकायत्वमित्येके ॥४.२.३।। गत्युपष्टम्भको धर्मः ॥४.२.४॥ न देशविशेषस्य तत्त्वमननुगमात् ॥४.२.५।। अस्याऽसङ्ख्यप्रदेशत्वं जीवा-ऽधर्माभ्यां समानम् ॥४.२.६।। पुद्गलानां सङ्ख्येयानन्तप्रदेशत्वे च ॥४.२.७।। आकाशस्याऽनन्तप्रदेशत्वमेव ॥४.२.८।। स्थित्युपष्टम्भकोऽधर्मः ॥४.२.९।। अस्य कृत्स्नलोकाकाशावगाहो धर्मेण समानः ॥४.२.१०।। अवगाहोपष्टम्भकमाकाशम् ।।४.२.११।। तल्लोका-ऽलोकाभ्यां द्विधा ॥४.२.१२।। धर्मा-ऽधर्माद्यधिकरणं लोकः ॥४.२.१३।।
SR No.229486
Book TitleAnekant Tattva Mimansa
Original Sutra AuthorN/A
AuthorTrailokyamandanvijay
PublisherZZ_Anusandhan
Publication Year
Total Pages18
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size92 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy