________________
September-2006
25
चरणशरणागतं बिभीषणं दृष्ट्वा, रावणगढस्य लङ्कानगर्याः राज्यं, तदैव प्रदत्तम् ॥१॥
___अथ रावणाय स्वस्त्रियोक्तं - रे ! शठ ! त्वं सीतां मा रक्ष, अनर्थमूलमित्यपि शासनमदं मन्यस्व, स्वयं विनष्टो [भावी च] । अत एव 'मूर्योपदेशो न श्रेयान्' इति वक्तव्यतां विचिन्त्याऽऽह च - मूल दोहा- मति म हारहु मूढ कुं, परगट दे परबोध !
विषधर कुं पय होइ विषु, कठिन उपाय हि क्रोध ॥२॥ व्याख्या - हे सज्जनाः ! मूढाय प्रकटं प्रत्यक्षं प्रतिबोधं दत्त्वा स्वमति मा हारयत इति, कण्ठशोषं मा कुरुत । तद्धेतुमाह - विषधरस्य पयो दुग्धं पीतमितिशेषः, विषमिव भूत्वा कठिनं कोधमुत्पादयतीति तात्पर्यम् ॥२६॥
यदा प्रतिबोधं प्राप्याऽर्हन्तं भजति, तदा किं स्यात् ? इत्याशङ्किन: शास्ति - मूल दोहा - रुषि करता की राउ कुं अबलुं हरइ-अभिमान ।
सिररूपी ससि-सूर कुं पकरइ राहु परांन ॥३॥ व्याख्या - कर्तुरर्थतः परमेश्वरस्य कृपाप्रभावेन अबलोऽपि महादीनोऽपि, राज्ञः सदैश्वर्यस्य अभिमानं हरति गर्वं त्याजयति । तदेव दर्शयति - कबन्धं विना केवलं शिरोरूपी राहुः ग्रहणपर्वदिने शशिनं सूर्यं च, महाबलवानिव ग्रसति इति तत्त्वार्थः ॥३॥
पुनरपिमूल दोहा - रुषि करता की राउ कुं, अबल वहोरहिं अंक ।
वपुरे वानर बंधि वरु लयउ महागढ लंक ॥४॥ व्याख्या - कर्तुः कृपया अबलाः, राज्ञे कलङ्कं ददति, यथा वराकैनिरैर्बलं बद्ध्वा त्रिभुवनविजयिनो रावणस्य महागढो महादुर्गो लङ्कालक्षणो गृहीतः । इति विचार्यम् ॥४॥
वानराणां रक्षाकरं रामं जेतुमसमर्थस्य रावणस्य शक्तिर्न स्फुरिता, इति विचारमाकलय्याऽथ कथयति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org