________________
September-2006
मूल दोहा
शङ्खिनीयुवत्या असुसंभावित स्वशरीरस्वरूपायाः इति यावत् कुचौ कुरीत्या रक्षितौ कथमप्येकवारं दृष्ट्वाऽत्यन्तं भग्नमन: परिणामतया कोऽपि पुनर्नाऽऽलोकयति, अत एव वल्लभावप्यनिष्टौ जायेते - इति सत्यम् ॥२७॥ सारंग ! स्वारथ सकल जग, परकजि किस हुं न पीर । तरणक त्रंबा कु तिजइ, खिणु अणपीवत खीर ॥२८॥ व्याख्या सकलमपि जगत् स्वार्थाय स्वकार्यकरणशीलम्, परं कस्याऽपि परकार्यार्थं पीडा नास्ति, तदेवाऽऽह - तर्णको वत्सः क्षणमपि क्षीरमपिबन्, स्वार्थहानिवत्तया स्वविरहजनितदोषमविचार्येति शेषः 'तंबां' देशी भाषया, स्वजनन्यै (जननीं ) धेनवे ( धेनुं) तत्कालमेव त्यजति - इति स्वार्थश्चिन्त्यः
||२८||
-
अथ कथमपि वत्सतरोऽपि कृतघ्नतया वृद्धि प्रापत्, स्वजननीं (च) तिरस्करोति - इति नीचस्वभावत्वमेव ते, नीचंभावभावितो जनोऽप्येवं विदधातिइत्येनमेवाऽर्थं दर्शयति मूल दोहा
-
Jain Education International
वडपद जितु पाउहि विगुण, पखि तिन चितहि पाप । अगनि अंग धुंआ होइ घनु, अर्गानि बुझावहि आप ॥ २९ ॥ व्याख्या विगुणोऽर्थात् कृतघ्नः, यतः यस्मादेव, वडपदमुच्चपदव महत्त्वमिति यावत् प्राप्नोति, तस्यैव पक्षे तदर्थमेव, पापं परिभवं पीडनं चिन्तयति, यथा हेतुमुदीरयति अग्नेरेवाङ्गं वह्निसमुद्भूत एव धूमो, घनो मेघरूपो भूत्वा स्वमुच्चतरं मन्यमानः वर्षित्वेति शेषः, आत्मना स्वयं, स्वोत्पत्तिनिमित्तभूतमग्निमेव विध्यापयति तिरस्करोति इति दुर्जनाचारः ||२९||
अथ दुर्जनवृत्त्या लोकेऽपकीर्त्तिरेव सञ्जायते, अतोऽपवादकारणपरिहारपूर्वं यशोग्रहणहेतुमालम्ब्याऽऽह च
35
—
-
मूल दोहा - सारंग ! जगमि लेहु यस, म म गहि अपजस मूर । विधि दोऊ हुन्ति विपाक बसि, इक सुख इकु सिर सूर ||३०|| व्याख्या हे सुजन ! त्वं जगन्मध्ये संसारे यशो गृह्णीष्वाऽर्जय । कदाचिदप्ययशोमूलं अपवादं, मा मेति तर्जनसूचकमव्ययद्वयं सम्भाव्यम् । द्वयोर्विपाकवशे कार्योत्पत्तिसमये विधिः स्वरूपमेवं परिणमयतीदमेव द्वयं
For Private & Personal Use Only
www.jainelibrary.org