SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ 36 कष्टेनात्मप्रियविरहिता विप्रयोगानुषक्ता नीत्वा घस्त्रान् किल कतिपयान् ह्रस्वजालान्तरालैः । स्वच्छच्छायां नयनसुभगामागतां सा ददर्श ज्योत्स्नां भ्राजच्छशधरभुवं शारदीं पूर्णिमीयाम् ॥२॥ तामाश्लिष्य प्रियविरहिणी सा मनाग् भूरिशक्ति कर्तुं प्रीती: कुवलयवनस्योच्चले साधु दध्यौ । वर्वर्त्येषा तनुविरहिणोऽप्यत्तिसम्पादयित्री प्राणेशस्य प्रमदवसते: किं पुनर्विप्रयोगे ॥३॥ अभ्यायाते जलदवियुभे (ते?) कार्तिकेड्यैस्तया स्राक् स्वप्रीत्यर्थं कुशलकलितं प्रापयिष्यत्युदन्तम् । तारामुक्ताफलपरिचितं हारमुत्कल्य ( ? ) तस्यै सोच्चैः प्रीत्या प्रमुदितमनाः स्वागतं पृच्छति स्म ||४|| अनुसंधान - २३ प्रातर्ह्यस्तंगतिरपि निशि स्थायिनी षत्क ( षत्क्व?) चन्द्रज्योत्स्नोदन्तां सततबलिभिः प्रापणीया जनैः क्व ? | मोहादेवं विरहविधुरा प्रार्थयामास तां सा रागाश्लिष्टाः सहजविकलाः साम्प्रतासाम्प्रते यत् ॥५॥ त्वामुत्पन्नां भुवननयनान्दिनो वेद्मि चन्द्राद् गन्तुं पूज्यत्रिनयनशिरो दिक्षु गन्त्री यथेच्छम् । तस्माद्दैन्यं त्वयि गतवती मन्त्वभावेन मुक्ता मद्भर्त्रासो यदुपकुरुतेऽलं यथाशक्ति दीनम् ||६|| हेतुः प्रीतेः प्रतिकुवलयं चन्द्रिके ! वर्त्तसे त्वं मद्भर्तुस्तज्झटिति गदितुं दुःखिनीं मे प्रवृत्तिम् । संप्राप्ता या विरहजलधिं कर्मणा द्वारिका ते प्राप्या चामीकरमयजिनप्रौढसौधाभिरामा ॥७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.229456
Book TitleKumarsambhavadi Mahakavya Chatushkaritya Stotra Chatushtayi
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherZZ_Anusandhan
Publication Year
Total Pages17
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size390 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy