SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ 40 (३) वाग् प्रसन्नमुखी भूयात्] विद्यादानकृते मम । नमस्कारार्हपादाब्जा बिभ्रती स्वच्छकच्छपीम् ॥१॥ क्वाऽप्सरः पतिसम्भूतोऽन्वयः क्व जुडधीरहम् । अस्म्यादित्सुर्महद्वस्तु - मोहान्निः स्वपुमानिव ॥२॥ बालः पटुगतिं वाञ्छन्नुपहास्याय देहिनाम् । भविष्यामि यथा पङ्गु-र्मोहाद् वैदग्ध्यधारिणाम् ॥३॥ यद्वाऽस्मिन् सूरिभिर्वशे जनिते स्तुतिगोचरे । गृहीते वप्र एकांशे जनस्येव गतिर्मम ||४|| सोऽहमाजन्मभूयिष्ठज्ञानानामाजगच्छ्रियाम् । आभोग्यकर्मसंसारस्थितीनामाजनूरुचाम् ॥५॥ यथाविध्युपकर्तृणां यथावित्तप्रदायिनाम् । यथावंशं प्रवृत्तीनां यथाभिमतभाषिणाम् ||६|| जयार्थं प्रौढसंग्रामकारिणां न्यायधारिणाम् । प्रत्तप्रत्यर्थिवासानां तुङ्गश्रृङ्गाद्रिगहवरे ॥७॥ असङ्ख्यानेहसं यावद् ऊढनिर्वाणवर्त्मनाम् । वैराग्यत्यक्तसंसारसम्भोगानां त्रिवर्गणाम् ॥८॥ इक्ष्वाकूणामहं स्तोष्ये जननं मन्दधीरपि । स्थित्वा तत्कीर्तनैः स्वान्ते स्तोतुमुत्कण्ठयेरितः ॥ ९॥ कुलकम् ॥ योग्यायोग्यविदः श्रोतुं व्यवस्यन्ति तदुत्तमाः । ज्ञायते यज्जनस्य ज्ञै- विद्वत्ता मन्दताऽपि वा ॥१०॥ मारुदेवोऽभवन्नाभि-गरिष्ठगुणगौरवः । निःशेषयुग्मिनां मान्यः पर्जन्यः स्वर्गिणामिव ॥ ११॥ Jain Education International अनुसंधान - २३ For Private & Personal Use Only www.jainelibrary.org
SR No.229456
Book TitleKumarsambhavadi Mahakavya Chatushkaritya Stotra Chatushtayi
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherZZ_Anusandhan
Publication Year
Total Pages17
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size390 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy