________________
वाचक श्री श्रीवल्लभगणिप्रणीता श्री मातृका - श्लोकमाला । चतुर्विंशतिजिनवर्णनो नाम प्रथमः परिच्छेदः
तद्यथा
||
श्रीशान्ति प्रणिपत्य नित्यमनघं संनम्रकम्रामराधीशाभ्यचितपूजनीयचरणाम्भोजं जनानन्दनम् ।
[o॥ नमः ॥ एँ नमः ॥
विद्वबुद्धिसरोजसूर्यसदृशीं श्रीश्लोकमालामहं,
वक्ष्ये काव्यकलाशुसिद्धय इमां श्रीमातृकायाः शुभम् ||१|| चतुर्विंशतिसार्वाणां प्रथमे ह्यत्राऽस्ति वर्णना । भिन्नभिन्नपदार्थानां परिच्छेदे द्वितीयके ॥२॥
अनेकदेवासुरपूजनीया, अहर्निशं शन्तु सुखानि सार्वा: । अगण्यपुण्याम्बुधयः शरण्या, अनिष्टदुष्कर्महरा वरेथाः (ण्याः) ॥३॥ आतङ्कदोषक्षयकारि धर्म, आदीश्वरो यच्छतु मङ्गलानि । आश्चर्यकारी भविनां जिनेश, आभासिता येन महोदय श्रीः ||४|| इलातलख्यातयशा वरौजा, इतामयः श्रीअजिता सार्व: । इतो भवात् पातु जगत्प्रतीत, इभाङ्कशाली गुणरत्नमाली ॥५॥ ईष्टे त्रिलोक्यां किल तीर्थराज, ईशो मुनीनां स हि शम्भवाख्यः । ईर्ष्यालुतामुक्तविशुद्धचेता, ईड्यस्सतां वैरिगणस्य जेता ||६||
Jain Education International
उदारतारञ्जितसाधुचेता, उपास्यतां भव्यजना जिनेशः ।
उपासना यस्य ददाति पद्मां, उपासकानामभिनन्दनाह्वः ? ||७|| ऊर्जेन बुद्धेर्विदितप्रतिष्ठ - ऊर्जस्वि धीमत्प्रतिवादि गोष्ट्याम् । ऊर्ध्वं गतं यद्यश एधते वै, ऊर्वान् क्रियाच्छं सुमतिजिनस्सः ॥८॥
For Private & Personal Use Only
www.jainelibrary.org