________________
११४
अनुसंधान-२६
सदा निशानाथसुवृद्धवेलः
सतां जनानां स्तवनीय इष्टः ॥२३॥ हतकुतीर्थिमतं भगवन्मतं, हरतु दुर्गतिपातकपातकम् । हरिहरादिसुरैरजितप्रभं, हसितचन्द्रसुचन्द्रगुणैर्युतम् ॥२४॥
ल्लख्यात कीर्तिर्गुरुरेष जीयालब्धप्रतिष्ठः प्रतिवादिगोष्ठ्याम् । लानाथ शौक्ल्योपम यत्प्रसादा
लष्टप्रतिज्ञो भवतीह मूर्खः ॥२५॥ क्षेमङ्करैस्तीर्थकरैर्य उक्तः, क्षामः कुतीर्थ्यालुदितैः कलङ्कः । क्षिप्यात्तमामागम एष पापं, क्षेत्रं गुणानामथ चिन्मयस्सः ॥२६॥
इति श्रीमातृकाश्लोकमालायां भिन्नभिन्नपदार्थवर्णनो नाम द्वितीयः परिच्छेदः।
[ प्रशस्तिः
]
श्रीमद्विक्रमनगरे प्रवरे द्रव्याढ्यसभ्यजनवृन्दैः । इषुशरषोडशसंख्ये (१६५५) वर्षे मासे च चैत्राख्ये ॥१॥ येषां प्रथते पृथव्यां कीर्तिः कर्पूरपूरसंकाशा । पाठकमुख्या नन्युर्ज्ञानविमलपाठकाधीशाः ॥२॥ शिष्येण निर्ममे येषां मातृकाश्लोकमालिका । वाचकश्रीवल्लभावेनाऽऽत्मीयज्ञानस्य वृद्धये ॥३॥
३७. लोक । ३८. ल्ला गौरी तस्या नाथो लानाथो महादेव इत्यर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org