________________
97
अनुसंधान-२० विलसन्ति सततं सकलमङ्गलकेलिकाननसन्निभाः
सर्वे जिना मे हृदयकमले राजहंसमप्रभाः ॥५॥ इति श्री २४ तीर्थंकरस्तवनम् ॥
सुप्रभातं' स्तवन (अज्ञातकर्तृक) ॥ श्रीनाभिनन्दनजिनोऽजितसम्भवेशं देवोऽभिनन्दनमुने सुमते जिनेन्द्र । पद्मप्रभः प्रणुत देव सुपार्श्वनाथचन्द्रप्रभोऽस्तु सततं मम सुप्रभातम् ॥१।। श्रीपुष्पदन्तपरमेश्वर शीतलाय श्रीयान् जिनो विगतमानसुवासुपूज्यः । निर्दोषवाग्विमलविश्वजनीनवृत्ते श्रीमाननन्त भव तं मम सुप्रभातम् ॥२।। श्रीधर्मनाथगणभृतनशान्तिनाथ कुन्थुर्महेशपरमारविमारमल्लि । सत्यव्रतेशमुनिसुव्रतसन्नमिह नेमिः पवित्र भव तं मम सुप्रभातम् ॥३।। श्रीपार्श्वनाथपरमार्थविदन्तरेण श्रीवर्धमानहतमानविमानबोधः । युष्मत्पदद्वयमिदं स्मरणं ममास्तु कैवल्यवस्तुविशदं मम सुप्रभातम् ।।४।।
इति सुप्रभातस्तवन समाप्तः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org