SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ अनुसंधान-१५ • 37 सञ्जातः किल निःकलङ्कमललाधीशान्वये त्वं जिनः । त्वद्वाचं कमलव्रजा निजगिरा श्रृण्वन्ति हर्षोन्नता: पार्षयेषु कृतान्ततर्कमललप्रादुष्कृतिप्रत्यल: ॥२९॥ संसारश्रान्तलोके कमललवति य: पापतापापनोदादग्रे संवाद्यमानानकमललवदुद्दामतेजाः सुरौघैः । नम्रीभूतक्षमाभृगणकमललभृन्निर्मलश्लोकराशेः निर्हाराधःकृतश्रीपिकमललभृदायासमे सेवकास्ते ॥३०॥ क्षोणीपावित्र्यहेतोः कमललवदिदं पाद पद्मद्वयं ते नैवाज्ञानप्रवृत्तैः "कमललुधरणैः श्रीयते सौख्यदायि । भक्तप्रत्यूहनाशाम्बिकमलनमिव ब्रह्मलक्ष्म्यास्तमौघे सालोकप्रवृत्ताम्बिकमलनजनासेव्यपाऊऽसि पार्श्वः ॥३१॥ क्षोणीविख्यातकीर्त्यानकमलयमुखानेकदेशस्थलोकान् स्वव्याहारेण लक्ष्मीजलधिरनुदिनं बोधयन्बोधिसाधुः । इत्थं स्पष्टार्थमाद्यन्मधुकमलभरैः पूज्यपादारविन्दः श्रीपाश्वो हेमशुद्धाभरणधरतनुः श्रेयसे संश्रितानाम् ।।३२॥ ।इत्येकं श्रीपार्श्वस्तोत्रम् ॥ शतार्थी(र्थि)पण्डितश्रीहर्षकुलगणिप्रणीतम् ॥ श्रेय: सदङ्कमलयोनतिमेघनादमुत्सर्पिदर्पकमलोपैमयाऽक्षिपन्तम् । वाचापि काकमलजं प्रतिबोधयन्तं वीरं गतांधिकमलं जिनराजमीडे ॥१॥ सम्पूर्णशान्तिकमलासिविमुक्तपाणिः सोढुं सुदुःशकमलासनमेः प्रभञ्जन्। मिथ्या सतां वदसि लोकमलप्रभूतं कुर्वन्जगत्कमलधारिवशाभिरर्य: ॥२॥ १. मण्डलाधीशो राजा, २. मृग, ३.मंडलं समूहः, ४.कमण्डलुः प्लक्षवृक्षविशेष: स इवाचरति कमण्डलवति, ५.मृदङ्ग, ६.मंडलं विद्यते यस्य स मण्डलवान् सूर्य :, ७. मंडलं सर्प बिभर्तीति मंडलभृदीश्वरः, ८. मण्डलं श्वानं बिभर्ति वाहनतया स मण्डलभृत् क्षेत्रपालः, ९. कमण्डलुः कुण्डिका तद्वदाचरत् कमण्डलवत्, १०.कमण्डलुधारकैस्तापसैः. ११. अम्बिका पाोपासिकादेवी, १२. मण्डनमलङ्कारः, १३. अम्बिका माता, १४. मण्डनाय अलङ्करिष्णवो जना इभ्यादयः, १५.पटह, १६.देश, १७.सदई सदभिज्ञानं मलयं वनं नन्दनादि, १८. अण्र्ट मुष्कं तस्योपमया- निन्द्यत्वनेत्यर्थः, १९.काकमण्डजं पक्षिणमपि, २०.अन्धिका कैतवं, अरं अत्यर्थं, २१. अण्डं शरं, असि खड्गः, २२.अण्डासनं धनुः २३. इ: कामः, २४.पेशी-आण्डं पेशीति वचनात्, २५. प्रकाश, २६.अण्डधारिणः पुरुषाः, २७.प्रथमकाव्यद्वयं पाश्र्वोपयागि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.229397
Book TitleKamal Panchshatika Stotram
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherZZ_Anusandhan
Publication Year
Total Pages20
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size505 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy