SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ अनुसंधान-१५ • 44 कर्मातङ्कमलघयदुर्गतिकार्मकमलोहयद्यच्च । भवकूपकमलने त्वं नि:शङ्कमलज्जवोऽसुमताम् ॥४६॥ विनयोदर्कमलासीदेकागारिकमलाटयद्वीरः । सेवकमलालयत्कुलनंदकमलयस्यपि स्म जगत् ॥४७॥ न्यकृतजतुकमलाराट् तव पदयुगलकमलेञ्जयद्रव्यान् । तण्डकमलक्षमाणः कुगतेस्त्वं स्वकमलक्षय: सिंहात् ।।४८|| पुण्याद्रङ्कमलाजत्पुण्यमृते क्षोणिनायकमलङ्कत् ।। मुखमकलङ्कपलाजद्येन च जैवातृकमलाञ्छत् ॥४९॥ परिचारकमललरङ्क श्रेणिकमलराजदीशधर्मेण । मुक्तव्यलीकमलतन् मुक्तावस्तोकमलवयन्महसा ॥५०॥ पापकमललापवचो गतसर्वारे कमलवणायत तत् ।। उदकमलाच्च भवस्याऽसुमत्कदम्बकमलक्षदिनः ॥५१॥ कोतिध्वजांशुकमलोपयदात्मवंशे भव्याङ्गिमोदकमलापि वचः सुचारु । नो कर्मपेटकमलात यतीश तस्य यस्तच्च तावकमलोपयति प्रमत्तः ॥५२॥ अज्ञैनरैः सकलमङ्कमलेखयद्यो मुक्त्या च साकमललास न तीर्थनाथः । कान्त्या तथाऽधिकमलार्हततीहितार्थदाता जिनैकमलसि स्म च मर्त्यलोकम् ।।५३।। यो वैनायकमलापत कर्तुं सूतकमलोकयत्तव च । परमं लोकमलाघीत् स प्राप्तुं वर्णकमलब्ध ॥५४॥ ३२ १.लघु अकरोत, २.कर्मशीलः कार्मकः, ३.यत्कर्म लोहमिव आचरत, ४.धारणे, ५.रज्जुरिवाचर: अरज्जवः, ६.अरासीत्, ७.एकागारिकं चौरं अराटयदुःखं कारितवान, ८.सेवकमलालयत्-विलासं कारितवान्, ९.मण्डयसि, १०.लाक्षा, ११.अराराट्, १२.अरञ्जयत्, १३.मायावन्तं, १४.सिंहात्स्वकं आत्मानं अलक्षय: अङ्कितवान्, १५.अराजयत् राजानं अकरोत्, १६.रङ्कमकरोत् अरङ्कयत्, १७.अराजत् शोभितं, १८.येन मुखेन चन्द्रमलाञ्छत् लाञ्छितएकरोत, १९.रङ्कमाख्यत् धर्मेण रङ्कमपि प्रतिबोधितवान्, २०.रति अकरोत्, २१.रविरिवाचरत, २२.पापर्क वचः न ललाप, अकारो निषेधे, २३.सन्देह, २४.रसत्वेन लवणमिवाचरत्, २५,भवस्य संसारस्य उदकमराद्दत्तं-संसारस्य जलाञ्जलिर्दत्त इत्यर्थः, २६.अरक्षत, २७.अरोपयत्, २८.लपितवान्, २९३०.तद्वचः प्रमत्तः सन् न लोपयति-अकारो निषेधे, ३१.अङ्क शास्त्रमलेखयत् लेखितं, ३२.साकं सार्धं न ललास न-अपि तु क्रीडित एव-अकारो निषधे, ३३. रा., ३४.अरजिन इवाचरति स्म, ३५-३६. राघङ सामर्थ्य-विनयं कर्तुं समर्थोऽभृत, ३७.जन्म, ३८.लाघृङ् सामर्थ्ये । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.229397
Book TitleKamal Panchshatika Stotram
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherZZ_Anusandhan
Publication Year
Total Pages20
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size505 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy