________________
२४
अनुसंधान-१५ . 43 आरक्तकमलयुगलो वोरोऽर्हन् गूढकमलभीतिहरः । कमलजभृद्यति दितिजध्वंसे ध्यातो हृदयकमले ॥३८।। कमलादितपोदेष्टा कविभि: कमलादिचित्रवर्ण्य गुणः । नाभिकमलस्वरूपं शंसति सत्यं च कमललये ॥३९।। कमलवदन्तर्येयं सेव्यं च सहस्रनीलकमलगणैः । चम्पकमलजातिनवश्रीतिलकमलादिसुमपूज्यः ॥४०॥ वाग्जितपूपकमल को नैषि वशं त्वकमलभुवां स्त्रीणाम् । जनदीपकमलकोकिलकाकमलादीन् प्रबोधयसि ॥४१॥ विश्वप्रकाशकमलप्रभुद्युतिः कनकमलतनुः सार्वः । मानामयजतुकमलल्युपदेष्टा प्रशमिनां कमलकाय: ॥४२॥ गीतिः ।। प्रणतमहाकमलाह्वयचक्रधरः कमलहरिनतः सार्वः । पूरयति कमलवासां सनाकमलवाहनाध्येयः ॥४३॥ यः सार्वकनकमलसत् तावकमलयति मुखं स्म तस्यैव । नष्टेन साकमलसत् दुर्गतिमयमधिकमलसच्च ॥४४॥ भक्त्या पावकमलसत्त्वां नायकमलचयत् शुचिं सस्वम् । क्षारकमलावयद्यस्तस्य भवोदकमलेवदीश ॥४५॥
१. कमल इव कमल: पादः, २. गूढपादः सर्पः, ३.कमलज शङ्कं बिभर्तीति कमलजभृत्कृष्णः स इवाचरतीति कमलजभृति, ४.कमलाकृतिकत्वात्पञ्चपदानि ध्यायेत, ५.कमलनाम्ना तपः, कमलनी ओली प्रसिद्धा, ६.चित्रालङ्कारं, ७.को वायुस्तस्य मलो धरणं रोधनं पवनसाधना तस्य लसे ध्याने नाभिकमलस्वरूपं-नाभौ कमलाकारो वर्तते , ८.कमलतपः तपस्विभिः, ९.नोलकमलं नेत्रं सहस्रनेत्र इन्द्रः, १०.पुष्पजाति, ११.पुष्प, १२.पदैकदेशे पदसमुदायो-पचारान्मलो दलामलो दमनकः, तथैव द्वितीयवारे दलामलो दमनकः, १३. मण्डकः, १४. पदैकदेशे पदसमुदायोपचारान्मलो हेमल: स्वर्णकारः, १५.हेमल: सरटः, १६.विमलजिनः, १७. विमलं निर्मलं पदैकदेशे पदसमुदायोपचारात् अत्र ग्राह्यं, १८.हिंगु, १९.एकदेशविकृतमनन्यवदितिन्यायात्-कमलं कोमलं एकदेशविकृतस्योपलक्षणत्वादनेकदेशविकृतस्याऽपि अनन्यवद्रावात्-को इत्यस्य स्वरव्यञ्जन समुदायस्यापि ग्रहणात्-मल-कोमलमिति - एवं अग्रेऽपि जयं, २० महापद्मचक्री, २१.पद्म वासुदेवः, २२.लक्षमी, २३.राजहंसवाहनः, २४.रसण आस्वादनस्नेहनयोः - कनकं धत्तूरं अरसत् आस्वादितवान्, २५.तस्य तव मुखमरिरिवाचरति स्म, २६.विट, २७.अरमत् सुतवान रसशब्द, २८.क्रीडितवान्, २९.पवित्रं, ३०.अलसत्-श्लेषितवान् लसश्लेषणक्रोडनयाः, ३१.अरचयत्, ३२.पक्षिपाशं, ३३.लव इव आचरत् अलवन.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.