________________
अनुसंधान-२६
+
इति निपातो वा नञोऽभावः । नगः पर्वतोऽगोऽपि । नगाः वृक्षाः | 'पा०' मते तु न - पूर्वात् गम्धातोः डप्रत्यये "नगः पर्वते, वृक्षे च पुं०" । अत्र तु पर्वतार्थ: । इन्दतीति भी - वृधि - रुधि- वज्यगि रमि वमि - वपि - जपि शकिस्फायि वन्दीन्दि-पदि- मदि- मन्दि- चन्दि- दसि - घसि-नसि-हस्यसि - वासि - दहिसहिभ्यो रः ॥२८७॥ इति 'उणादिश्रीसि० ' सूत्रेण 'इदु - परमेश्वर्ये' इति धातो: रप्रत्यये इन्द्रः- शक्रः- पूर्वदिक्पतिश्च । “इन्द्रो हरिर्दुश्च्यवनो ऽच्युताग्रजो वज्री बिडौजा मघवान् पुरन्दरः, प्राचीनबर्हिः पुरुहूत - वासवौ सङ्क्रन्दनाखण्डलमेघवाहनाः, सुत्राम- - वास्तोष्पति- दल्मि- शक्रा वृषा शुनासीर-सहस्रनेत्री, पर्जन्यहर्यश्व- ऋभुक्षि- बाहुदन्तेय - वृद्धश्रवसस्तुराषाट् सुरर्षभस्तपस्तक्षो जिष्णुर्वरशतक्रतुः, कौशिकः पूर्वदिग् देवाप्सर:- स्वर्ग - शची-पतिः, पृतनाषाडुग्रधन्वा मरुत्वान् मधवा" इति हैर्मः । इन्द्रे तु " खदिरो नेरी त्रायस्त्रिशपतिः जयो गौरवास्कन्दी वन्दीको वराणो देवदुन्दुभिः किणालातो हरिवान् यामनेमिरसन्महाः शयीचिर्माहिरो (शपीवि: मिहिरो) वज्रदक्षिणो वि (व) युनोऽपि च " इति हैमशेषः । इन्द्रः पूर्वदिक्पतिः ।
८०
तिर्यग्दिशां तु पतय इन्द्राग्नियमनैर्ऋताः ।
+4
वरुणो वायुकुबेरावीशानश्च यथाक्रमम् ॥ [ इति हैम : ] इन्द्रादयोऽष्टौ दिक्पालाः । इन्द्रः विषभेदः । 'अथ हलाहलः, वत्सनाभः कालकूटो ब्रह्मपुत्रः प्रदीपनः, सौराष्ट्रकः शौल्किकेयः काकोलो दारदोऽपि च, अहिच्छत्रो मेष शृङ्गः कुष्ठ - वालूकनन्दनाः, कैराटको हैमवतो मर्कटः करवीरकः, सर्षपो मूलको गौराद्रकः सक्तक- कर्दमौ, अङ्कोल्लसार: कालिङ्गः, शृङ्गिको मधुसिक्थकः, इन्द्रो लाङ्गलिको विस्फुलिङ्ग पिङ्गलगौतमाः, मुस्तको दालवश्चेति स्थावरा विषजातयः" इति हैम: । 'एते सर्वेऽपि स्थावरवनस्पतिभवत्वात् स्थावरा विषस्य जातयो भेदाः' इति । एते सर्वेऽपि पुंक्लीबलिङ्गाः' इति वाचस्पति: ' इति तट्टीकायाम् । इन्दनादिन्द्रः स्वामी । " अधिपस्त्वीशो नेता परिवृढोऽधिभूः, १. अभि० चि० द्वि० १७१-७२-७३-७४ |
२. अभि० चि० हैमशेषे
३३ |
३. अभि० चि० द्वि० १६९ ।
४. अभि० चि० च० ११९५-९६-९७-९८-९९ ।
Jain Education International
-
For Private & Personal Use Only
www.jainelibrary.org