________________
December - 2003
59
ततः कुर्यात्' इति स्मृति: । दैत्यभेदे, विरोचनपुत्रे च" !
___'येन बद्धो बली राजा दानवेन्द्रो महाबली' ॥ इति रक्षाबन्धनमन्त्रः । षष्ठः प्रतिवासुदेवो वा बलि: । ते च नव । यदाह हैम: --
अश्वग्रीवस्तारकश्च मेरको मधुरेव च ।
निशुम्भ-बलि-प्रह्लाद-लङ्केश-मगधेश्वराः ॥ लङ्केशो रावणः, मगधेश्वरो जरासन्धः, इति टीका ।
विष्णुवध्यत्रयोविंशतौ द्वाविंशे, यदाह हैम:- "मधु-धेनुकचाणूर-पूतनायमलार्जुना: कालनेमिहयग्रीवशकटारिष्टकैटभा: कंसकेशिमुराः साल्वमैन्दद्विविदराहवः हिरण्यकशिपुर्बाणः कालियो नरको बलिः शिशुपालश्चाऽस्य वध्याः" इति । 'एते त्रयोविंशतिरस्य विष्णोर्वध्या' इति तट्टीका" । "जरया श्लथचर्मणि, स्त्रीलि० वा ङीप् ।
'गृहस्थस्तु यदा पश्येत् वलीपलितमात्मनः' । इति स्मृतिः । 'उदारावयवे- 'बलित्रयं चारु बभार बाला' इति कुमारः ।
गुह्यस्थे अङ्कराकारे मांसपिण्डे, गृहदारुभेदे च स्त्री० । स्वार्थे कन्, तत्राऽर्थे इति बलायां च । दीप्यते इति दीपः, प्र स्वार्थे, मेरुः सुमेरुवत्, प्रदीपः ।
'दीपः प्रदीप: कज्जलध्वजः स्नेहप्रियो गृहमणिर्दशाकर्षो दशेन्धनः" इति हैमः । यद्वा प्रउपसर्गपूर्वात् दीप्धातोः कप्रत्यये प्रदीपः, पुंलि० प्रदीपे। बलयश्च प्रदीपाश्च बलिप्रदीपा: । अन्तिके न्यस्ताः बलिप्रदीपाः यस्याः सा अन्तिकन्यस्तबलिप्रदीपा, ताम् अन्तिकन्यस्तबलिप्रदीपाम् - समीपस्थापितपूजोपकरणदीपाम् । तां पूर्वोक्तां सुखासीनां नन्दिनीम् ।।
अन्वास्य- अनुउपसर्गपूर्वात् 'आस् उपवेशने' धातोर्त्यपि अन्वास्य अनूपविश्य । क्रमणं-भावे घजि क्रमः । “पर्यायोऽनुक्रमः क्रमः परिपाट्यनुपूर्व्यावृत्" इति हैम: । क्रामन्त्यनेनेति क्रम:-पादः "चरण: क्रमणः पादः १. अभि० चि० तृ० ६९९ । २. अभि० चि० द्वि० २१९-२०-२१ ।। ३. अभि० चि० तृ० ६८६-८७ । ४. अभि० चि० १० १५०३-४ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org