SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ अनुसंधान-२६ णाणस्स होइ भागी थिरयरओ दंसणे चरित्ते अ। धत्रा आवकहाए गुरुकुलवासं न मुंचंति ॥४॥ सव्वगुणमूलभूओ भणिओ आयारपढमसुत्ते जं । गुरुकुलवासोऽवस्सं वसिज्ज. तो तत्थ चरणत्थं ॥५॥ इत्यादि । तस्य गुरो:-वसिष्ठस्य । जैनमते तु ऋषिमुनिरूपस्य त्यागिनः सदारगुरोरभावादेतद्वर्णनमयुक्तमेवेत्यवसेयम् । पत्स्यते अपाद पेदेवा पादः । 'वदरुजविशस्पृशो घञ्' (५।३।१६।।) इति 'श्रीसि०' सूत्रेण पदधातोर्घजि पादः । "चरण: क्रमणः पादः पदोंऽहिश्चलनः क्रमः इति हैमः । 'पा०' मते तु पद्यते गम्यतेऽनेनेति करणे घजि पादः । "इज्यस्य चरणे, चतुर्थांशे, वृक्षादेर्मूले, पूज्ये, किरणे च" । अत्र तु चरणार्थः । पादौ-चरणौ । न(नि)पीड्य संवाह्य । अत्र स्त्रीपादसंवाहनमयुक्तं पुरुषस्येत्यभिसन्धाया 'ऽभिवन्द्ये 'ति [विवृतवान्] मल्लिनाथ इत्यनुमीयते । सन्ध्यायां विहित: सान्ध्यः, तं सान्ध्यं सायंकालिकम् । विधीयतेऽनेनेति विधिः । "कल्पे विधिक्रमौ" इति हैमः । 'पाणिः' मते तु विधिः विपूर्वात् धाधातोः किप्रत्यये इनप्रत्यये वा विधिः "जगत्स्रष्टरि, ब्रह्मणि, भाग्ये, क्रमे, 'चिकीर्षा कृतिसान्ध्य(ध्यात्वहेतुधीविषयो विधिः' इत्युक्ते प्रवर्तनारूपे, नियोगे, तज्जनके वाक्ये, विष्णौ, कर्मणि, गजभक्ष्यान्ने, वैद्ये, अप्राप्तप्रापकरूपे, वाक्यभेदे, 'संज्ञा च परिभाषा च, विधिनियम एव च । अतिदेशोऽधिकारश्च षड्विधं सूत्रमुच्यते ॥ इति व्याकरणोक्ते सूत्रभेदे । विधिरत्यन्तमप्राप्तौ नियम: पाक्षिके सति । तत्र चाऽन्य[त्र] च प्राप्तौ परिसङ्ख्येति गीयते ।।' अत्र तु क्रमार्थः । तं विधिम्-अनुष्ठानम् । समाप्य पूर्णीकृत्य । १. अभि० चि० तृ० ६१६ । २. अभि० चि० तृ० ८३९ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.229356
Book TitleRaghuvansh Dwitiya Sarga Tika
Original Sutra AuthorN/A
AuthorDharmkirtivijay
PublisherZZ_Anusandhan
Publication Year
Total Pages93
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size999 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy