SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ अनुसंधान-२६ बहुचनान्त: । “लाजाः स्युः पुनरक्षताः" इति हैर्मः । पाति- रक्षति आधेयं, पीयतेऽस्मादिति वा पात्रं त्रिलिङ्गः । " पात्रामत्रे तु भाण्डम् ( भाजनं ) " इति हैम: । पिबन्ति अनेन इति पात्रम् । 'नी- दाव् - शस्-यु-युज- स्तु-तुद-सिसिच-मिह-पत-पा-नहस्त्रट् (५/२८८ ||) इति 'श्रीसि० 'सूत्रेण त्रट्, 'पा० ' मते पाधातोष्ट्रन् । “पात्रं स्रुवादिकम्" इति हैमैं: । पीयते इति पात्रं प्रवाहः त्रिलिङ्गः । " पात्रं तदनन्तरम्" इति हैमैं: । पान्ति स्वभूमिकामिति पात्राणि 'त्रुट् ॥४४६॥ इति 'उणादिश्रीसि० ' सूत्रेण पाधातोः त्रट् । " पात्राणि नाट्येऽधिकृताः" इति हैमः । पापात् त्रायते इति निरुक्तिवशात् पात्रम् । "पात्रं जलाद्याधारे, भोजनयोग्येऽमत्रे, ज्ञानचरणयुक्ते, दानयोग्ये, मुनौ यज्ञीये, स्नुवादौ, तीरद्वयमध्यवर्त्तिनि, जलाधारस्थाने, नाटकेऽभिनये, नायकादौ च नपुंसकः " । अत्र तु पात्रममत्रम् । अक्षतानां पात्रम् अक्षतपात्रम् । अक्षतपात्रेण सह वर्तते इति साक्षतपात्रौ । हसतीति हस्त:- 'दम्यमितमि मा - वा-पू-धू - गृ-ज्-हसि-वस्यसि वितसि मसीणभ्यस्तः ॥ २००॥ इति '[3] श्रीसि० ' सूत्रेण 'हसे हसने' धातोः ते हस्त:-नक्षत्रविशेष: । "हस्तः सवितृदेवतः " [इति है : ] | हसत्यनेन हस्तः पुंक्लीबलिङ्गः । हसद्भिः मुखे दीयते वा हस्तः । “पञ्चशाखः शयः शमः हस्त: पाणिः करः” इति हैमैं: । "हस्तः प्रामाणिको मध्ये मध्यमाङ्गुलिकर्पू(कूर्प)रम्" इति हैर्मः । हस्तोऽङ्गुलविंशत्या चतुरन्वितया इति तदर्थः । “चतुर्विंशत्यङ्गुलानां हस्तः" इति हैमः । हस्यतेऽनेन इति हस्तः । "हस्तिनासा करः शुण्डा हस्तः" इति है : । अत्र हस्तक्रियाकारित्वात् हस्तः । 'पाणिनीय' मते तु हस्धातो: तनि हस्त: पुं० । “हस्त: देहावयवभेदे चतुर्विंशत्यङ्गुलपरिमाणे } ४० 'यवोदरैरङ्गुलमष्टसङ्ख्यैः हस्तोऽङ्गुलैः षड्गुणितैश्चतुर्भिः' इति लीलावती । हस्तिशुण्डे च, अश्विन्यादिषु त्रयोदशे नक्षत्रे पुं० स्त्री० 'जाहन्वी हस्तयोगे ' इति पुराणम् । 'पुष्या हस्ता तथा स्वातिः' इति ज्योतिषम् । समूहे च यथा १. अभि० चि० तृ० ४०१ । २. अभि० चि० च० १०२६ | ३. अभि० चि० तृ० ८२८ | ४. अभि० चि० च० १०७९ । ५. अभि० चि० द्वि० ३२७ Jain Education International - ६. अभि० चि० द्वि० ११२ । ७. अभि० चि० तृ० ५९१ । ८. अभि० चि० तृ० ५९९ । ९. अभि० चि० तृ० ८८७ । १०. अभि० चि० च० १२२४ | For Private & Personal Use Only www.jainelibrary.org
SR No.229356
Book TitleRaghuvansh Dwitiya Sarga Tika
Original Sutra AuthorN/A
AuthorDharmkirtivijay
PublisherZZ_Anusandhan
Publication Year
Total Pages93
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size999 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy