________________
December - 2003
३१
पुत्र इति व्यवहारोऽपि श्रद्धयैव, तहि अतीन्द्रियसूक्ष्मपदार्थावबोधे ज्ञानिवचनस्य श्रद्धां विना न निर्वाहो भवति । केवला श्रद्धाऽपि नाऽर्थवती, न केवला प्रज्ञाऽपि । अन्यथा केवलया श्रद्धया शाक्तानां पञ्चमकारासेवनादेव मुक्तिरित्यादोनामपि सार्थक्यं स्यात् । केवलया च प्रज्ञया कस्याऽहं पुत्र इत्यपि निर्णयो न स्यात् । अत एवाऽत्र श्रद्धाशब्देन प्रज्ञाविशिष्टा श्रद्धा ग्राह्या । तथा च तस्य पर्याय: आस्तिक्यबुद्धिरिति प्रज्ञाविशिष्टा केवला श्रद्धा शोभनाऽपि सदनुष्ठानं विना न शोभतेतराम् । एवं धेनुरपि तेन राज्ञा युक्ता शोभते । ज्ञानक्रियानययोः शास्त्रे उपालम्भवचनानि तु अर्थवादपराणि इति न्यायाचार्य-न्यायविशारदबिरुदैः पूज्यैः श्रीयशोविजयवाचकैः ‘खण्डनखण्डखाद्ये' समर्थितम् ॥
____ अत एव सतां मतेन विधिनोपपन्नेत्युक्तम् । एतेन सद्विधेरपि प्राबल्यं यज्जैनशास्त्रकारैः प्रतिपादितं तत्समर्थितम् । तथा चाऽऽह
आसन्नसिद्धियाणं विहिपरिणामो य होइ सयकालं । विहिचाओ अविहिभत्ती अभव्वजिअदूरभव्वाणं ॥१॥ धन्नाणं विहिजोगो विहिपक्खाराहगा सया धन्ना । विहिबहुमाणी धन्ना विहिपक्ख-अदूसगा धन्ना ॥२॥ विहिकरणं गुणिराओ अविहिच्चाओ य पवयणुज्जोओ । अरिहंतसुगुरुसेवा इमाइं सम्मत्तलिंगाई ॥३।।
किञ्च व्यवहारलोपकानां चरणकरणनाशकत्वं तीर्थनाशकत्वं च जैनशास्त्र उक्तम् । यदाहुः- निच्छयमवलंबंता निच्छयओ निच्छयं अयाणंता । नासंति चरणकरणं बाहिरकिरियालसा केई ॥१॥
इत्योघनिर्युक्तौ । "ववहारनउच्छेए तित्थुच्छेओ जओवस्स"
इति व्यवहारभाष्ये। वाच्यपरिवर्तनं त्वेवम्- सा देवतापित्रतिथिक्रियार्था अन्वग् यये मध्यमलोकपालेन बभे च तया तेन सतां मतेन श्रद्धयेव साक्षात् विधिनोपपन्नया ॥१६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org