________________
२९
परिधानान्तधिभेदतादर्थ्ये" इर्त्यमरः । सञ्चरणं सञ्चारः । पूयन्ते स्मेति भूतानि - शुद्धानि । सञ्चारेण पूतानि सञ्चारपूतानि । कृत्वा - विधाय । द्यति तम: दोधातोर्नकि दिनम् । दीव्यति रविरत्र द्यति तम इति वा "दिननग्नं" [फेन चिह्न- ब्रध्न- धेन स्तेन - च्यौक्नादय: ] ॥२६८|| औणादि० सूत्रेण नान्ते निपातने दिनं पुंक्लीबलिङ्गः । " तत्राहर्दिवसो दिनम् दिवं द्युर्वासरो घस्रः" इति हैम: र । दिनस्य अन्तो दिनान्त:, तस्मिन् दिनान्ते सायंकाले । निलीयतेऽत्रेति निपूर्वात् 'ली' धातो: अचि निलयः "गृहे, आवासस्थाने च" । तस्मै निलयाय-अस्तमयाय । धेनुपक्षे आलयादे (यै) व गन्तुं प्रचक्रमे उपक्रान्तवती । 'प्रोपादारम्भे ( ३ | ३|५१ || ) इति 'श्रीसि० हे० श०' सूत्रेण 'प्रोपाभ्यां समर्थाभ्याम्' [१|३|४२ || ] इति पाणिनीयसूत्रेण चाऽऽत्मनेपदम् ॥
December
-
2003
वाच्यपरिवर्तनं त्वेवम् - पल्लवरागताम्रया पतङ्गस्य प्रभया मुनेर्धेन्वा च दिगन्तराणि सञ्चारपूतानि कृत्वा दिनान्ते निलयाय गन्तुं प्रचक्रमे ॥
अभिनवकिसलयरागरक्ता सूर्यकान्तिर्वशिष्ठनन्दिनी च सर्वं दिनं वने निखिलानि दिगन्त भागान् निजसञ्चरणेन पवित्रीकुर्वाणा सन्ध्यासमयेऽस्तमयाभिमुखी निजस्थानाभिमुखी च जाता, इति सरलार्थः ॥ १५ ॥
तां देवतापित्रतिथिक्रियार्थामन्वग्ययौ मध्यमलोकपालः । बभौ च सा तेन सतां मतेन श्रद्धेव साक्षाद्विधिनोपपन्ना ॥१६॥
१. अम० तृ० नानार्थवर्गे २. अभि० चि० द्वि०
Jain Education International
तामिति । मध्ये भवः मध्यमः । लोक्यतेऽसाविति लोकृधातोः कर्मणि घञि लोकः । मध्यमश्चाऽसौ लोकञ्च मध्यमलोकः । मध्यमलोकं पालयतीति मध्यमलोकपालः- मर्त्यलोकाधिपः । देवन्ते इति देवाः देवा एव देवधातोः स्वार्थे तलि देवताः । " क्वचित् स्वार्थिका अपि प्रत्ययाः प्रकृतितो लिङ्गवचनान्यतिवर्तन्ते" इति भाष्योक्तेः स्त्रीत्वम् । 'देवता इन्द्रादौ सुरे' । पान्तीति पाधातोः तृचि पितरः । अतन्ति सततं गच्छन्ति न तिष्ठन्ति एकत्रेति अत्धातोः इथिनि अतिथयः । " अतिथिः अध्वयोगेन आगन्तुके, गृहागते, विषये च " । तस्य इन्द्रियेषु संसर्गमात्रकाल एव चेतसि स्थितिर्नोत्तरकालमिति
-
-
-
२७०९ ।
१३८ ।
For Private & Personal Use Only
"
-
www.jainelibrary.org